________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २६७ कत्वे च सति प्रामाण्यमित्यन्योऽन्याश्रयात् स्वविषयप्रमात्वेनैवाविद्यानिवर्तकत्वान्निर्विकल्पस्य [ 'तत्त्वमसि' इति ] महावाक्यार्थज्ञानस्यैवा बाधितविषयतया प्रमात्वेन तथात्वम्, प्रत्यक्षादीनां तु बाधितविषयतया भ्रमत्वाद् व्यवहारसामर्थ्येन प्रामाण्याभिमानेऽपि न तथात्वमिति वेदान्तसिद्धान्तान्निर्विकल्पवृत्ति- ब्रह्मणोः सत्यसम्बन्धाभावे सर्वमेव विलून शीणं स्यादिति मन्तव्यम् । अथाऽस्तु महावाक्य -- जनिर्विकल्पके ब्रह्मण औपरागिक एव सम्बन्धः, प्रामाण्यं च द्वैता - नवगाहित्वेनैव, अत एव घटादिद्वैतज्ञानस्याप्यज्ञाते सन्मात्रांशेऽद्वैतेऽज्ञातज्ञापकतया प्रामाण्याभ्युपगमेऽपि द्वैतावगाहितयाऽप्रामाण्यादेव नाज्ञाननिवर्तकत्वमिति चेत् १ तत् किं द्वैतानवगाह्य द्वैतज्ञानत्वेन ज्ञान
1
पगत एव वृत्ति ब्रह्मणोर्वास्तविक सम्बन्धानभ्युपगम इत्याह- स्वविषयप्रमात्वेनैवेति । तथात्वम् अविद्यानिवर्तकत्वम्, एवमग्रेऽपि । पुनर्वेदान्ती शङ्कते - अथेति । ननु ब्रह्मणि निर्विकल्पकसम्बन्धस्योपरागिकत्वे वास्तविकसम्बन्धस्याभावात् कथं प्रामाण्यं तस्येत्यत आह- प्रामाण्यं चेति । अत एव द्वैतानवगाहित्वेन प्रामाण्यस्य स्वीकारादेव, अद्वैतावगाहित्वेन प्रामाण्यं यदाऽनुमतं भवेत् तदा 'सन् घटः' इत्यादिज्ञानानामपि सदंशस्याऽज्ञातस्याऽद्वैतरूपस्य ज्ञापकत्वेनाऽद्वैतावगाहित्वतः प्रामाण्यं भवेत्, प्रामाण्याच्च तज्ज्ञानानामज्ञाननिवर्तकत्वमापद्येत, यदा च द्वैतानवगाहित्वेनैव प्रामाण्यमभिमतं तदा ' सन् घटः इत्यादिज्ञानानां घटादिद्वैतावगाहित्वेन द्वैतानवगाहित्वाभावान्न प्रामाण्यम्, किन्तु द्वैतावगाहित्वादप्रामाण्यमेवेति न तेषामज्ञाननिवर्तकत्वमित्यर्थः । सिद्धान्ती पृच्छति- तत् किमिति । पर उत्तरयतिओमिति चेदिति द्वैतानवगाह्यद्वैतज्ञानत्वेनाऽज्ञाननिवर्तकत्वं स्वीक्रियत एवास्माभिरित्यर्थः । एवं सति सुषुप्तावानन्दस्वरूपं ब्रह्मैवाज्ञातं
१