________________
२६६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् चेत् । तस्याकारस्य वृत्तितादात्म्ये ब्रह्मणि का सम्बन्धः १, ब्रह्मतादात्म्ये च वृत्तौ का सम्बन्धः' इति विचार्यताम् । विचारासहे निर्विकल्पकसम्बन्धे को विचार इति चेत् ? अविचारितरमणीयस्वेच्छामात्रशरणानां मुग्धानामयं पक्षः, न तु परीक्षाक्षमाणाम् । अथ तत्त्वतो ब्रह्मासम्बन्धेऽपि निर्विकल्पकवृत्तेरज्ञाननिवर्तकत्वादेव ब्रह्मणि प्रामाण्यमिति चेत् १ न-प्रामाण्ये सत्यज्ञाननिवर्तकत्वमज्ञाननिवर्त
ब्रह्मवृत्युभयाऽसम्बन्धिन आकारस्य ब्रह्माकारत्वे तद्वत्तया वृत्तवृत्तिसम्बन्धित्वे ब्रह्माकारतया च व्यपदेशासम्भवाद् ब्रह्माकारत्वमपि ब्रह्मविषयत्वं न सम्भवतीति समाधत्ते- तस्याकारस्येति। निर्विकल्पक चिदाकारवृत्तेब्रह्मणा सम्बन्धो विचारासह एवास्माभिरुपेयते, तत्र प्रयोजनाभावाद् विचारो नाद्रियत एवेति पर आह- विचारासह इति । परीक्षका यत् किमपि स्वीकुर्वन्ति तत् परीक्षातो व्यवस्थितमेव, यञ्च परीक्षां न क्षमते तन्न स्वीकारक्षेत्रमिति तदभ्युपगमो मुग्धानामेव शोभते, न तु परीक्षाविदग्धानामिति समाधत्ते- अविचारितरमणीयेति । परमार्थतो निर्विकल्पकवृत्तेब्रह्मणा समं सम्बन्धो नास्त्येव, अथापि ब्रह्मगताज्ञाननिवर्तकत्वाद् ब्रह्मणि प्रामाण्यं तस्याः, तत एव मुमुक्षुपदेशः फलवानिति पर आरेकते- अथेति। तत्त्वतः परमार्थतः। ब्रह्मगताज्ञाननिवर्तकत्वानिर्विकल्पकवृत्तेः प्रामाण्यम् , प्रामाण्याच्चोता. ज्ञाननिवर्तकत्वमित्येवमन्योऽन्याश्रयान्नोक्तोपगमः श्रेयानिति समाधत्ते. नेति । अपि च निर्विकल्पकवृत्तेर्ब्रह्मणा सह विषयविषयिभावलक्षणसम्बन्धो यदि परमार्थतो नास्ति तर्हि निर्विकल्पकवृत्तिविषयस्य ब्रह्मणोऽबाधितत्वादबाधितब्रह्मविषयत्वेन प्रामाण्यं तस्याः परमार्थतः, अन्यज्ञानस्य तु बाधिविषयत्वान्न वस्तुतः प्रामाण्यम्, किन्तु व्यवहारकालाबाध्यवस्तुविषयत्वाद् व्यवहारतस्तस्य प्रामाण्याभिमानेऽपि न घस्तुतः प्रामाण्यम् इति सिद्धान्तोऽपि वेदान्तिनो दूराद