________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २७९
कत्वव्याघातः । सदाद्यात्मकमपि निर्विकल्पकदृष्ट्यैकमेव स्यादिति चेत् १ सर्वात्मकमपि तदेकरूपं किं न स्यात् १ एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानादतीता - sनागतानामपि द्रव्यार्थतया धौव्याऽविगानात् । इत्थं हि " जे एगं जाण० " [ आचाराङ्ग - श्रु० १, अ० ३, उ० ४, सू० ११२ ] इति पारमेश्वरवचनानुसारितापि सङ्गच्छत इति तवदृष्ट्या विचारणीयम् ॥
यदपि सोऽयं देवदत्त इति वाक्ये तत्कालविशिष्टैतत्काल
द्वैतसिद्धिरित्याशङ्कते - सदायात्मकमपीति । यदि सदादिचतुष्टयस्वरूपमपि निर्विकल्पकथैकमेव तर्हि सर्वात्मकमपि भवतु तद् एकमपि भवतु, एवं चकाऽनेकरूप ब्रह्म वस्त्विति सर्वस्य वस्तुन एकानेकस्वरूपत्वं यत् स्याद्वादिनोऽभिमतम्, साक्षात् परम्परयैकस्यापि घटादेः सर्वसम्बन्धित्वेन कथञ्चिद्भेदा मेदस्य सम्बन्धमात्र व्यापकत्वेन सर्वाभेदस्यापि प्रतिनियतस्यैकस्य वस्तुनः सम्भवेन सर्वथैकज्ञानस्यापि सववस्त्ववगाहित्वे सत्येव सम्भवेनाऽतीता-ऽनागतानामपि द्रव्यरूपतया ध्रौव्यस्याऽवश्यम्भावेन स्याद्वाद एव कक्षीकृतो भवेदित्याह - एकविज्ञानेनेति । एकविज्ञानेन सर्वविज्ञानाभ्युपगतौ सत्यां " जे एगं जाणइ से सब्धं जाणइ " इति पारमषवचनानुसारित्वमपि सङ्गच्छत इत्याह- इत्थं हीति । ' जे एगं " इत्यादि वचनमूलकमेव च - "एको भावः सर्वथा येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः । सर्वे भावास्तत्त्वतो येन दृष्टाः, एको भावः सर्वथा तेन दृष्टः”॥१॥ इति वचनमिति ॥
' तत् त्वमसि' इति वाक्यस्याखण्डब्रह्मणि जहदजहल्लक्षणा ' सोऽयं देवदत्तः ' इति वाक्यस्य शुद्धदेवदत्तव्यक्तौ जहदजहल्लक्षणाहृष्टान्तेन वेदान्तिना समर्थिता, तत्समर्थनस्यापदशनपुरस्सरमस: