________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[२६६ - किञ्च, सहजमुक्तत्वे ब्रह्मणो मुमुक्षूपदेशानर्थक्यम् , अब्रह्मणो हि नोपदेशो जडत्वादसत्त्वाच्च, ब्रह्मणस्तु मुक्तत्वं स्वतः सिद्धम् , जीवस्याविद्यानिवृत्तिरपि भेदाभेदविकल्पाऽसहत्वान्न फलमिति कस्य कः किमुपदिशेत् ? । अथ परमार्थतो नास्त्येवोपदेशफलम्
" न निरोधो न चोत्पत्तिन बाधो न च साधकः ।
न मुमुक्षुने वै मुक्त इत्येषा परमार्थता" ॥१॥ इति श्रुतेः। तं प्रत्युपदेशसम्भवः, यदि च मुमुक्षुर्ब्रह्माभिन्नस्तदा तस्य स्वतः सिद्धं मुक्तत्वमिति न तत्रोपदेशस्य साफल्यम् , एवमविद्यानिवृत्तिरपि फलतयाऽभ्युपगता ब्रह्मभिन्ना चेत् ? तदाऽसत्यायास्तस्या न फलत्वम् , ब्रह्माऽभिन्ना च सर्वदाऽस्तित्वादेव न फलम् , एवं वेदान्तिमते न ब्रह्मभिन्न उपदेश उपदेशको वेति यथा यथा विचार्यते तथा तथा विशीर्यत एव ब्रह्माद्वैतवाद इत्याह- किञ्चेति । मुमुक्षूपदेशानर्थक्यमेवोपपादयति- अब्रह्मणो होत्यादिना । उपदेष्टव्यपुरुषाभावमभिप्रेत्याह- कस्येति । उपदेशकपुरुषाभावमभिप्रेत्याह- क इति। अविद्यानिवृत्तिलक्षणमुक्त्यभावमभिप्रेत्याह- किमिति । दुर्दुरूटो वेदान्ती स्वसिद्धान्तावेशादाह- अथेति। परमार्थत उपदेशफलाऽभावे श्रुतिं प्रमाणयति-न निरोध इति- अविद्यैव परमार्थतो नास्तीति न तस्या निरोध इत्यर्थः। अविद्या यदि काचिद् भवेत् तदा तत्त्वज्ञानतस्तस्या निवृत्तिरुत्पद्येत, एवं प्रपऽश्चोपि यदि सन् स्यात् तदा तस्योत्पत्तिरविद्यातोभवेत् असतस्तु तस्य नास्त्येवोत्पत्तिरित्याह-न चोत्पत्तिरिति। एवं तत्त्वज्ञानेन नाऽविद्या-तत्कार्ययोरसतोर्बाध इत्याह-न बाध इति। जीवमात्रस्य ब्रह्मरूपत्वाद् ब्रह्मभिन्नस्य कस्यचिदभावात् साधकमुमुक्षु-मुक्तानामप्यभाव इत्याह- न च साधकः। न मुमुक्षुर्न वे मुक्क इति । एषा इयं प्ररूपणा। 'न बाधः' इति स्थाने 'न बद्धः' इति पाठः पञ्चदशीसम्मतः, यत उक्तश्रुतिः पद्यद्वयाभ्यामित्थमवतारिता चित्रदीपप्रकरणे