________________
२६२ ]
[ तत्वबोधिनीविवृतिविभूषितम् अन्त्ये च भावाऽभावशबलैकरूपं ब्रह्म स्यात् , ब्रह्मभाव एक प्रपश्चाभावस्तदभाव एव च ब्रह्मभाव इत्येकतरस्य विनिगन्तुमशक्य त्वात् , श्रुतेरप्यनुवृत्त्यंश इव व्यावृत्त्यंशेऽप्युपलम्भादिति स्याद्वाद कक्षाप्रवेशः।
अन्न्ये च प्रपञ्चसम्बन्धाभाव आत्मनोऽभिन्नः सहजमुक्तत्वमिति द्वितीयपक्षे पुनः। भावेति-चैतन्येन रूपेण भावरूपत्वम्, प्रपञ्चसम्बन्धाभावत्वेन रूपेणाभावरूपत्वमित्येवं भावा-ऽभावोभयात्मकं ब्रह्मेति कक्षीकृतं स्यात् , भावा-ऽभावोभयात्मकवस्त्वभ्युपगमश्च स्याद्वादिन पवेति वेदान्तिनोऽपि तथाभ्युपगमे स्याद्वादितैव प्रसज्यत इत्यर्थः। ननु यदेव ब्रह्म तदेव प्रपञ्चाभाव इत्येकरूपमेव ब्रह्म न भावाभावोभयरूपमित्यत आह- ब्रह्मभाव एवेति । ब्रह्म प्रपञ्चसम्बन्धाऽभाव. योरैक्यमुभयथापि सम्भवति-यदेव ब्रह्म तदेव प्रपञ्चसम्बन्धाभाव इति य एव प्रपञ्चसम्बन्धाभावः स एव ब्रह्मेति, तत्र प्रपञ्चसम्बन्धा. भावस्य ब्रह्मात्मकभावरूपसन्निवेशमाश्रित्य भावरूपमेव ब्रह्मेति यदि गीयते तर्हि ब्रह्मणः प्रपञ्चसम्बन्धाभावात्मकाभावरूपसन्निवेशमव. लम्ब्याभावरूपमेव ब्रह्मेति कुतो न गीयते ? न चात्र विनिगमकं किञ्चित् , श्रुतिश्च यथा 'सत्यं ज्ञानमनन्तं ब्रह्म' इतिविधिरूपतया ब्रह्मप्रतिपादिका, तथा 'अस्थूलमनण्वहस्वम्' बृहदारण्यकोपनिषद्, [३, ३, ८] इत्यादिनिषेधरूपतया ब्रह्मप्रतिपादिकाऽपि जागत्यै वेत्यनुवृत्त व्यावृत्तोभयरूपमेव ब्रह्मेति वेदान्तिनः स्याद्वादकक्षाप्रवेश आवश्यक इत्यर्थः।
इतोऽपि सहजमुक्तत्वं ब्रह्मणोऽयुक्तम्-यतस्तथाऽभ्युपगमे मुमुक्षु. मुद्दिश्य य उपदेशो वेदान्तिनां स्वग्रन्थेषु तस्यानर्थक्यम्, मुमुक्षुर्यदि ब्रह्मभिन्नस्तदा जड एव भवेत् , तस्य च घटादिवन्नोपदेशार्हत्वम् , नापि वेदान्तिमते ब्रह्मभिन्नस्य कस्यचित् सत्त्वमित्यसत्त्वादपि न