________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[ २६१ पारमार्थिक सहजमुक्तनिरंशब्रह्मस्वरूपं न विरुणद्धीति चेत् ? किं नाम पारमार्थिकं सहजमुक्तत्वम् ?, प्रपञ्चसम्बन्धाभाव इति चेत् ? सोऽयमभाव आत्मनो भिन्नोऽभिन्नो वा ?, आधे द्वैतापत्तेब्रह्मणोऽसिद्धिप्रसङ्गा, तदुक्तं वात्तिके
"अव्यावृत्ताऽननुगतं, वस्तु ब्रह्मेति भण्यते ।
ब्रह्मार्थो दुर्लभोऽत्र स्याद् , द्वितीये सति वस्तुनि" ॥१॥ इति । व्यतीत्येवं विचारणायाः सर्वस्यापि प्रत्येकं सद्भावान कोऽपि मुक्त्यर्थं यत्नमातिष्ठेदिति दृष्टिसृष्टिवादो न युक्त इत्यर्थः। आंशिकबन्ध-मोक्षोभयप्रसङ्गस्य प्रतिबिम्बादिवादे पूर्वमापादितस्य परिहार माशङ्कते- अथेति- शुद्धचैतन्यस्य व्यावहारिकमांशिकबद्ध-मुक्तोभयखरूपमप्यस्तु, पारमार्थिकं सहजमुक्तनिरंशस्वरूपमप्यस्तु, समसत्ताकयोरेव सांशत्व-निरंशत्वयोर्विरोधो न तु विषमसत्ताकयारित्यर्थः । पारमार्थिकं सहज मुक्तत्वमेव निरुच्य दर्शयितुं न शक्यत इत्युक्तसमाधानमाशङ्कितुं न शक्यमित्याशयेन पृच्छति- किं नामेति । पर आह- प्रपञ्चेति- चैतन्ये प्रपञ्चसम्बन्धाभाव एव सहजमुक्तत्वं पारमार्थिकमित्यर्थः। विकल्प्य प्रतिक्षिपति- सोऽयमभाव इति- अनन्तरमुपदर्शितप्रपञ्चसम्बन्धाभाव इत्यर्थः । आये प्रपञ्चसम्बन्धाभाव आत्मनो भिन्न इति पक्षे। द्वैतापत्तेरिति-उक्ताभ्युपगमे प्रपञ्चसम्बन्धाभावस्य ब्रह्मभिन्नस्य द्वितीयस्य सद्भावाद् 'अद्वितीयं ब्रह्म' इत्यस्या सिद्धिप्रसङ्ग इत्यर्थः।
उक्तार्थे वार्तिकसंवादमुपदर्शयति- तदुक्तमिति-द्वितीयस्य कस्यचिद् वस्तुनोऽभावान्न ततो व्यावृत्तम् , तत एव च नानुगतमिति सामान्य-विशेषोभयानात्मकमेवंभूतं वस्तु वेदान्तिना ब्रह्मेति शब्देन गीयते, परमात्मनो भिन्नस्य प्रपञ्चसम्बन्धाभावस्योररीकारे प्रपञ्चसम्बन्धाभावात्मकद्वितीयवस्तुनि सति अव्यावृत्ताऽननुगतरूपब्रह्मशब्दार्थो दुर्लभ एव स्यादित्युक्तवार्तिकपद्यार्थः।