________________
२६० ]
[ तत्त्वबोधिनी विवृतिविभूषितम् निवृत्तावप्यन्यतत्सत्त्वेन ब्रह्मण्यांशिकबन्ध मोक्षोभयापत्तेरनुद्धारात् । 'अज्ञानप्रतिबिम्बितं तदुपहितं वा चैतन्यं जीवः' इत्येकजीववादाख्यः प्राचांदृष्टिसृष्टिवादस्तु सर्वमुक्ति विनैकमुक्त्यसिद्धस्तदर्थमुमुक्षुप्रवृत्त्युच्छेदादेव दरापास्तः। अथ व्यावहारिकमांशिकबद्धमुक्तोभयस्वरूपं निवृत्तावप्यन्यचिदाभाससत्त्वाच्चिदाभाससामान्यनिवृत्त्यभावेन मुक्तत्वं न स्यात्, यदि तबुद्धितादात्म्यापनचिदाभाससामान्याभावस्यैव तज्जीवमुक्तत्वमुपेयते तदा तज्जीवापेक्षया चैतन्ये मुक्तत्वम् , अन्यबुद्धितादात्म्यापनचिदाभाससत्त्वेनान्यजीवापेक्षया तत्रैव बद्धत्वमित्यंशमेदस्यावश्यकत्वेन निरंशत्वस्य व्याघातात् , एवमवच्छेदवादे एकजीवाशाननाशेऽपि तदन्यजीवाज्ञानस्य सद्भावादशानसामान्यनिवृत्त्यभावेन न तल्लक्षणा मुक्तिर्भवेदतस्तत्रापि तज्जीवाशानसामान्याभाव.' स्यैव चैतन्ये तजीवमुक्ततोपगमेन तदन्यजीवाज्ञानसद्भावात् तदपे. क्षया बद्धत्वमपीत्यंशभेदावश्यम्भावे चिति निरंशत्वाभ्युपगमो व्याहन्येतेत्यर्थः। प्राचीनवेदान्तिनां दृष्टिसृष्टिवादस्त्वतितुच्छत्वादुपेक्ष्य एव परीक्षाविदग्धैरित्याह- अज्ञानप्रबिम्बितमिति- अज्ञानस्यैकत्वात् तत्प्रतिबिम्बितचैतन्यरूपो जीवोऽप्येक एव, तदुपहितम् अज्ञानोपहि तम् , एकस्याज्ञानस्यैव निवृत्तिः, तद्भाव एव मुक्तिः तदनन्तरं नास्त्येव प्रपञ्च इति नाऽजादौ संसारे पूर्व कस्यापि मुकिरभवदिति नामदेवादीनां मुक्तिप्रतिपादिका श्रुतिरर्थवादमात्रमेवैतन्मते, पकधैव चैकमुक्त्या सर्वमुक्तिरिति । अयं दृष्टिसृष्टिवादोऽद्वैतसिद्धौ विस्तरतः प्रतिपादितो मधुसूदननेन । ' दृष्टिसृष्टिवादस्तु' इत्यस्य 'दुरापास्तः' इत्यनेनान्वयः, तत्र हेतुमाह- सर्वमुक्तिं विनेति । तदर्थेति-मुक्त्यर्थेत्यर्थः, अमुकस्य मुक्त्या सर्वमुक्तिर्भविष्यतीति न कस्यापि निश्चय इति यस्य मुक्त्या सर्वमुक्तिः स चेन्नाऽहं तर्हि तदर्थ यत्नो मम वृथैव, अकृते. ऽपि प्रयत्ने यस्य मुक्त्या सर्वमुक्तिस्तत्प्रयत्नादेव ममापि मुकिवि