________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २५९
सामान्याभावस्य चैतन्ये तज्जीवमुक्ततोपगमेऽपि तत्रांशिकबन्ध-मोक्षोभयलक्षणप्रसङ्गेन निरंशत्वव्याघातात् । ऐतेन 'बुद्धयुपहितस्तत्तादात्म्यापन्नस्वचिदाभासाविवेकादात्मैव जीवः' इत्याभासवादेऽपि केवलचैतन्यस्यैवाभासद्वाराज्यबद्धत्वं तन्निवृत्तौ च मुक्तत्वम, 'अज्ञानाश्रयभूतं चैतन्यं जीवः' इत्यवच्छेदवादे चाज्ञानमेव भिन्नभिन्नं बन्धस्तनिवृत्तिरेव च मोक्ष इत्यप्यपाकृतं द्रष्टव्यम्, एकचिदाभासा-ज्ञान
विषयाकारकारितापगमतो यत्किञ्चित्तद्बुद्धिप्रतिविम्वाभावसम्भवात् तल्लक्षणबुद्धिमुपादायापि मोक्षः प्रसज्येतेत्येवमतिप्रसञ्जकत्वादित्यर्थः । चैत्रस्य यदन्तःकरणं तलक्षणबुद्धिप्रतिबिम्वसामान्याभावलक्षणैव शुद्धिरित्यत आह- तद्बुद्धिप्रतिबिम्बेत्यादीति । तज्ञ्जीवेति- यज्जीवान्तःकरणलक्षणबुद्धिप्रतिबिम्ब समान्याभावश्चेतन्ये तजीवन्मुक्ततेत्येवमुपगमेऽपीत्यर्थः, एवं सति तजीवापेक्षया मुक्तत्वमन्यजीवापेक्षया बद्धत्वं चैतन्ये इत्यनेकांशता चैतन्ये स्यादेकेनांशेन मुक्तमेकेनांशेन बद्धमति कृत्वा तथा च ब्रह्मणो निरंशत्वाभ्युपगमो व्याहन्येतेत्यर्थः । प्रतिबिवादे बन्ध-मोक्षव्यवस्थानुपपत्तिवदुक्तयुक्त्या आभासवादे अवच्छेदकवादे च बन्ध-मोक्षव्यवस्थानुपपत्तिरित्याह- एतेनेति - अस्य 'अपाकृतं द्रष्टव्यम्' इत्यनेनान्वयः, बुद्धयुपहित आत्मैव जीव इत्यन्वयः । नहि बुद्धयुपहितत्वमात्रेण जीवत्वं किन्तु तत्तदाभ्यान्नस्वचिदाभास विवेकादिति-बुद्धितादात्म्यापन्नो य आत्मस्वरूपस्य चित आभास - स्तस्पाविविवेकाद् भेदाग्रहादित्यर्थः । तन्निवृत्तौ चिदाभासनिवृत्तौ । आभासवादे बन्ध-मोक्षव्यवस्थां पराभिमतामुपदर्थ्याऽवच्छेदवादे तामुपदर्शयति- अज्ञानाश्रयभूमिति- अत्रानेकजीववादाभ्युपगमरक्षार्थमज्ञानस्य नानात्वमप्युपेयत : इत्याशयेन 'अज्ञानमेव भिन्नभिन्नम् ' इत्युक्तम् । तन्निवृत्तिरेव अज्ञानरूपबन्धनिवृत्तिरेव । ' एतेन ' इत्यनेनाऽ तिदिष्टमेव हेतुमुपन्यस्यति - एकेति - आभासवादे एकचिदाभास