________________
२५८ ]
[ तत्वबोधिनीविवृतिविभूषितम्
व्यवस्थाया एवानुपपत्तेः, बुद्धिप्रतिबिम्बितं चैतन्यं जीव इति प्रतिबिम्बवादे बुद्धिप्रतिबिम्बस्य बन्धपदार्थस्य, बुद्धिनिवृत्तौ दर्पणाभावे मुखस्येव शुद्धस्य चैतन्यस्य मोक्षपदार्थस्य च वक्तुमशक्यत्वात्, एकदर्पणाभावेऽपि दर्पणान्तरसन्निधौ मुख इवैकबुद्ध्यभावेऽपि बुद्ध्यन्तरसन्निधौ यावत्प्रतिबिम्बाभावलक्षणायाः शुद्धे चैतन्येऽसम्भवात्, यत्किञ्चित्प्रतिबिम्बाभावस्य चातिप्रसञ्जकत्वात्, तद्बुद्धिप्रतिबिम्बअनन्तरमुपवर्णितमिदम द्वैतवादिमतमखिलमिन्द्रजालम्, यथेन्द्रजालमापाततोऽवभासत पव केवलम्, न तु सत्, तथाऽद्वैतवादिमतमपीत्यर्थः । इत्थम् अनन्तराभिहितप्रकारेण | अद्वैतवादे बन्ध-मोक्षव्यव• स्थाया अनुपपत्ति दर्शयितुं तदीयां बन्धमोक्षव्यवस्थां तावदाह- बुद्धिप्रतिबिम्बितमिति- तथा च बुद्धिप्रतिविम्बो बन्धः, तन्निवृत्तौ शुद्धं चैतन्यं मोक्ष इति वन्ध-मोक्षव्यवस्था तन्मते आयातेति 'बन्धपदार्थस्य वक्तुमशक्यत्वान्मोक्षपदार्थस्य वक्तुमशक्यत्वाद् इत्यनेन च तस्यानुपपत्तिरावेदिता, ग्रन्थलाघवार्थमेकवाक्येनैवोभयाभिधानम् । यन्निवृत्तिर्मुक्तिर्भवेत् तस्यैव बन्धपदार्थत्वं युक्तम्, यदेकबुद्धिप्रतिबिम्बनिवृत्तेर्मुक्तिपदार्थत्वं वक्तुमशक्यं तदैकस्य बुद्धिप्रतिविम्बस्य बन्धपदार्थत्वमपि वक्तुमशक्यमित्याशयेनाह - एकदर्पणभावेऽपीति । मुख इवेतिदर्पणान्तरसन्निधौ दर्पणान्तरे मुखस्य प्रतिबिम्बसम्भवाद् यावत्प्रतिबिम्वाभावलक्षणायाः शुद्धेर्यथा मुखे न सम्भवस्तथेत्यर्थः । ननु यत्कि ञ्चिदबुद्धिप्रतिबिम्बाभावलक्षणैव शुद्धिरिति तस्या यत्किञ्चिदबुद्धि• प्रतिबिम्बाभावेऽप्यस्त्येव ब्रह्मणि सम्भव इति तामुपादाय शुद्धं ब्रह्म मोक्षो भविष्यतीत्यत आह- यत्किञ्चिदिति । अतिप्रसञ्जकत्वादिति यदा चैत्रात्मनि स्वान्तःकरणलक्षणवद्धिप्रतिविम्वो वर्तते तदानीमपि मैत्रान्तःकरणलक्षणबुद्धिप्रतिबिम्बाभावसत्त्वात् तद्रूपशुद्धिमुपादाय बोsपि चैत्रात्मा मुक्तो भवेदित्येवमतिप्रसञ्जकत्वात् एवं तत्तद्वियाकारकारिताभेदेन तद्बुद्धिप्रतिबिम्बोऽपि नानाविध इति तदेक
·
"