________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[२५७ तदानीममानित्वादीनि ज्ञानसाधनान्यद्वेष्टत्वादयः सद्गुणाश्वालङ्कारवदनुवर्तन्ते, तदुक्तम्
" उत्पन्नात्मावबोधस्य, अद्वेष्ट्रत्वादयो गुणाः। अशेषतो भवन्त्यस्य, न तु साधनरूपिणः" ॥१॥ इति । किंबहुना ? अयं देहमात्रामत्रार्थी सुखदुःखलक्षणान्यारब्धफलान्यनुभवन् अन्तःकरणाभासादीनामवभासकः सन् तदवसाने प्रत्यगानन्दपरब्रह्मणि प्राणे लीनेऽज्ञान-तत्कार्यसंस्काराणामपि विनाशात् परं कैवल्यमानन्दैकरसमखिलभेदप्रतिभासरहितमखण्डं ब्रह्मावतिष्ठते, “न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते" [ नृसिंहोपनिषद्, ५] "विमुक्तश्च विमुच्यते" [ कठोपनिषद्, १] इति श्रुतेरिति ॥ .
तदिदमखिलमिन्द्रजालम्-इत्थं ब्रह्माद्वैताभ्युपगमे बन्ध-मोक्ष
तदानीं जीवन्मुक्तावस्थायाम् । ज्ञानस्य सम्पूर्णस्य वृत्तत्वादलङ्करणमात्रं तदानीं शानसाधनानीत्यत्र प्रायां संवादमाह- तदुक्तमिति । अयं जीवन्मुक्तोऽघसाने ब्रह्ममात्रं परममुक्तिस्वरूपमासादयतीति दर्शयति- किं बहुनेत्यादिना । अयं जीवन्मुक्तः । देहमत्रामात्रार्थी देहमात्रं यद् अमत्रमुपभोगसाधनापोत्रं तदर्थी, देहाभावे प्रारब्धकर्मफलसुखदुःखोपभोगासम्भवादनिच्छतोऽपि तदर्थित्वमावश्यकम्, 'अनुभवन्, अवभासकः सन् , भवतिष्ठते' इति सर्वत्र 'अयम् ' इत्यन्वेति। तदवसाने अन्तःकरणाभासादीनां निवृत्तौ। प्राणा जीवन्मुक्तस्य मरणसमये मान्यत्र गच्छन्ति, परब्रह्मण्येव विलीयन्ते, जीवन्मुक्तोऽप्यखण्डब्रह्मस्वरूपावाप्त्या पुनर्मुक्तो भवतीत्यत्र श्रुति प्रमाणयति- न तस्येति । तस्य जीवन्मुक्तस्य । अत्रैव परब्रह्मण्येव ।। ... इत्थं सङ्गहनयोत्थं वेदान्तमतमुपदर्थ्य एकान्ताऽऽग्रहपहिलत्वेन अतिनिकुरम्बापेतमिति मन्यमानो ग्रन्थकारः प्रतिक्षिपति-तदिदमिति