________________
२५६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
पश्यन्नपि न पश्यतीन्द्रजालवत्, "सचक्षुरचक्षुरिव सकर्णोऽकर्णः " इत्यादिश्रुतेः । ईदृशच ब्रह्मणो जीवन्मुक्त इत्युच्यते, अस्य ज्ञानात् पूर्व विद्यमानानामाहार-विहारादीनामनुवृत्तिवच्छुभवासनानामेवानुवृत्तिर्भवति, शुभा शुभयोरौदास्यं वा, तदुक्तम्
"बुद्धाद्वैतस्वतत्त्वस्य यथेष्टाचरणं यदि । शुनां तत्त्वदृशां चैत्र, को भेदोऽशुचिभक्षणे " ॥ १ ॥ इति [ पञ्चदशद्वैतवि० ५५]
(
न पश्यति' इत्यत्र श्रुतिं प्रमाणयति- सचक्षुरिति । 'ब्रह्मण:' इत्यनन्तरं ' रूपम्' इति शेषः । अयं च जीवन्मुक्तः पूर्ववदेव शुचिभक्षणादिकं कुरुते, अशुचिभक्षणादितो निवर्तते, केवलं पूर्वावस्थायां शुभाशुभघासनयोरप्यनुवृत्तिः, तदानीं च शुभवासनानामेवानुवृत्तिः, शुभा Sशुभयोरौदास्यं वा भवतीत्याह- अस्येति - जीवन्मुक्तस्येत्यर्थः । जीवन्मुक्तस्य पूर्ववदेवाहार-विहाराद्यनुवृत्तिः, न तु यथेष्टाचरणमित्यत्र पञ्चदशी द्वैतप्रकरणवचनसंवादमाह तदुक्तमिति । बुद्धाद्वैतेति अत्रेतानि
पद्यानि प्रकृतानुगुणानि, यथा
" तत्त्वं बुद्धवाऽपि कामादीन, निःशेषं न जहासि चेत् ॥ यथेष्टाचरणं ते स्यात्, कर्मशास्त्रातिलङ्घिनः ॥ ५४ ॥ बुद्धाद्वैतस्वतत्त्वस्य यथेष्टाचरणं यदि । शुनां तवदशां चैव, को भेदोऽशुचिभक्षणे ॥ ५५ ॥ बोधात् पुरा मनोदोषमात्रात् क्लिश्नास्यथाऽधुना । अशेषलोकनिन्दा चेत्यहो ते बोधवैभवम् ॥ ५६ ॥ विड्वराहादितुल्यत्वं मा काङ्कीस्तत्त्वविद् भवान् । सर्वधी शेष संत्या गाल्लोकैः पूज्यस्व देववत् ' ॥ ५७ ॥ इति ।