________________
२६४ ]
[ तस्वबोधिनीविवृतिविभूषितम् प्रतीतितस्तु फलमस्त्येव, अविद्यानिवृत्तिरात्माऽनात्मा वेत्यादि"बन्ध मोक्षव्यवस्थार्थमात्मनानात्वमिष्यताम् । इति चेन्न यतो माया, व्यवस्थापयितुं क्षमा ॥ २३३ ॥ दुर्घटं घटयोमीति, विरुद्धं किं न पश्यसि ?। वास्तवौ बन्ध-मोक्षौ तु, श्रुतिर्न सहतेतराम् ॥ २३४ ॥ न निरोधो न चोत्पत्तिन बद्धो न च साधकः। न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता" ॥ २३५ ॥
त्रयाणां व्याख्यानं चेत्थम्अद्वैताभ्युपगमे बन्ध मोक्षन्यवस्थानुपपत्तेरात्मभेदोऽङ्गीकर्तव्य इति चोदयति- बन्धमोक्षेति। एकस्याप्यात्मनो मायया बन्ध-मोक्षव्यवस्थोपपत्तेमॆवमिति परिहरति- न यत इति ॥ __मायाऽपि कथं व्यवस्थापयेदित्याशङ्कय तस्य दुर्घटकारित्वस्वाभाव्यादित्याह- दुर्घटमिति । बन्धस्याविद्यकत्वेऽपि मोक्षो वास्तवो. ऽभ्युपेतव्य इत्याशङ्कय श्रुतिविरोधान्मैवमित्याह- वास्तवाविति । न सहतेतराम् अतितरां नैव सहत इत्यर्थः, बन्धमिव मोक्षमपि वास्तवं न सहत इति भावः॥ ___मोक्षादेर्वास्तवत्वप्रतिषेधिकां श्रुतिं पठति-न निरोध इति-निरोधो नाशः, उत्पत्तिदेहसम्बन्धः, बद्धः सुखदुःखादिधर्मवान् , साधका श्रवणाद्यनुष्ठाता, मुमुक्षुः साधनचतुष्टयसम्पन्नः, मुक्को निवृत्ताविद्यः, इत्येतत्सर्व वस्तुतो नास्तीत्यर्थः" इति ॥
परमार्थतो निरोधादेरभावादुपदेशफलमपि परमार्थतो नास्ति, एवमपि प्रतीतित उपदेशफलमस्त्येवेति नाद्वैतवादेऽपि मुमुक्षु. पदेशानर्थक्यमित्याह- प्रतीतितस्त्वति, अविद्यानिवृत्तिरात्माऽ. नात्मेति विकल्पेन यथाऽविद्यानिवृत्तिर्वक्तुं न शक्यते तथैवा. न्योऽप्यर्थ उक्तविकल्पेनाख्यातुं न शक्य इत्येवं सर्वस्याऽपारमार्थिकस्याऽनिर्वचनीयत्वेऽपि मुमुक्षूपदेशस्य “तत् त्वमसि, अहं