________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २५३ "अहिंसा-सत्या-ऽस्तेय-ब्रह्मचर्या-ऽपरिग्रहा यमाः"१ [पातञ्जलयोग० पाद-२ सू० ३०] १।"शौच-सन्तोष-तपः स्वाध्यायेश्वरप्रणिधानानि नियमाः" २। [पातञ्जलयोग० पाद -२ सू० ३२] पद्मक-स्वस्तिकादीन्यासनानि ३ । रेचक कुम्भक-पूरकाः प्राणायामाः ४। इन्द्रियाणां स्वविषयेभ्यो निवर्तनं प्रत्याहारः ५। अद्वितीयवस्तुन्यन्तरिन्द्रियधारणं धारणा ६ । तत्रैव विच्छिद्य विच्छिद्यान्तरिन्द्रियवृत्तिप्रवाहो ध्यानम् ७। समाधिस्तु सविकल्प एव, अस्य निर्विकल्पकस्याङ्गिनो लय-विक्षेप-कषाय-रसास्वादलक्षणाश्चत्वारो विघ्ना भवन्ति, लयस्तावदखण्डवस्त्वनवलम्बनेन चित्तवृत्तेनिद्रा, तदवलम्बनेन चित्तवृत्तेरन्यावलम्बनं विक्षेपः, लय-विक्षेपाभावेऽपि चित्तवृत्ते रागादिवासनया स्तब्धीभावादखण्डवस्त्ववलम्बनं कषायः, समाध्यारम्भसमये मध्य इत्यर्थः। पतेषां विशेषतोऽवधारणं पातञ्जलयोगशास्त्रादितः कर्तव्यं ग्रन्थगौरवभयान्नेह तद्विचारो वितन्यते। इन्द्रियाणां चक्षुरादीन्द्रियाणाम् । स्वविषयेभ्यो रूप-रस-गन्ध स्पर्श-शब्देभ्यः। अन्तरिन्द्रियेतिमनोरूपेन्द्रियेत्यर्थः। तत्रैव अद्वितीयवस्तुन्येव । निर्विकल्पकसमाधिरपि समाधिः, स कथं स्वस्यैवाङ्गिनोऽङ्गं स्यादत आह- समाधिस्त्वितिनिर्विकल्पकसमाध्यङ्गतया दर्शितसमाधिः पुनः सविकल्पकसमाधिरेव, तदनन्तरं निर्विकल्पकसमाधिभावादित्यर्थः। यमाद्यष्टाङ्गभावेऽपि लयादिविघ्नभावे निर्विकल्पकसमाधिन भवतीति तदभावोऽपि प्रतिबन्धकाभावविधया निर्विकल्पकसमाधौ कारणं भवतीति तदधिगतये लयादिविघ्नान् दर्शयति- अस्येति-एतद्विवरणम्- निर्विकल्पस्याङ्गिन इति। लयादीनां क्रमेण स्वरूपमुपदर्शयति- लयस्तावदिति। तदवलम्वनेन अखण्डवस्त्ववलम्बनेन । लय विक्षेपाभ्यां वैलक्षण्येन कषायस्वरूपमावेदयतिलय-विक्षेपाभावेऽपीति- अखण्डवस्त्ववलम्बनं निर्विकल्पकसमाधावपि