________________
२५२ ]
[ तत्त्वबोधिनी विवृतिविभूषितम्
अन्त्यस्तु ज्ञातृ-ज्ञानादिविकल्पलयापेक्षयाऽद्वितीयवस्तुनि तदाकाराकारिताया वृत्तेरतितरामेकी भावेनावस्थानम्, तदा जलाकाराजलमात्रावभासवदद्वितीयवस्त्वाकाराकारित
कारितलवणानवभासे
चित्तवृत्यनव भासेऽद्वितीयवस्तुमात्रमव भासते, ततश्चास्य सुषुप्तेर्नाभेदः, उभयत्र वृत्यभाने समानेऽपि तद्वृत्तिसद्भावा- सद्भावमात्रेण तयोर्भेदोपपत्तेः ।
अस्याङ्गानि - " यम नियमा ऽऽसन-प्राणायाम- प्रत्याहार-धारणाध्यान - समाधयः "[" यम-नियमा ऽऽसन-प्राणायाम प्रत्याहार-धारणा -ध्यानसमाधयोऽष्टावङ्गानि " पातञ्जलयोगदर्शनद्वितीयपादे सू० २९ ।। ] । तत्र -
निर्विकल्पक समाधिं लक्षयति- अन्त्यस्त्विति - निर्विकल्पकसमाधिः पुनरित्यर्थः । तदाकाराकारितायाः अद्वितीयवस्त्वाकाराकारितायाः । तदा निर्विकल्पक समाध्यवस्थायाम् । जलावारेति - जले प्रक्षिप्तं लवणं जलाकारमेवोपजायत इति न तदानीं लवणपिण्डावभासः, किन्तु जलमात्र त्वाभास एव तद्वन्निर्विकल्पक समाधिकाले अद्वितीयवस्त्वाकाराकारितचित्तवृत्तिर्भवति, परं सा नावभासते किन्तु अद्वितीयवस्तुमात्रमेवावभासत इत्यर्थः । ततश्च तदानीमनवभासमानाऽद्वितीयवस्त्वाकारवृत्तिसध्रीचीनाऽद्वितीयवस्तुमात्रावभासतश्च । अस्य निर्वि कल्पकसमाधेः। ‘ततश्च' इत्यनेनोक्तमेव तयोर भेदाभावहेतुं स्पष्टयतिउभयत्रेति निर्विकल्पकसमाधि सुप्त्योरित्यर्थः । तद्वृत्तीति- अद्वितीयवस्त्वाकारवृत्तीत्यर्थः । तयोः निर्विकल्पकसमाधि- सुषुप्त्योः, निर्वि कल्पकसमाधी अद्वितीयवस्त्वाकारवृत्तिसद्भावः, तदसद्भावश्च सुषुप्ता वित्येवं विरुद्धधर्माध्यासात् तयोर्भेदोपपत्तेरित्यर्थः ।
-
येभ्यो निविकल्पकसमाधिरात्मानमासादयति तान्यङ्गानि दर्श यति - अस्येति - निर्विकल्पक समाधेरित्यर्थः । अष्टानां समाध्यङ्गानां यमादीनां स्वरूपं क्रमेणोपदर्शयति- तत्रेति - यम-नियमादिष्वष्टसु