________________
२५४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
व्युत्थाने वा सविकल्पकानन्दास्वादनं रसास्वादः, एतद्विघ्नचतुष्टयरहितं चित्तं निर्वातदीपत्रदचलं सदखण्डचैतन्यमात्रं यदाऽवतिष्ठते तदा निर्विकल्पसमाधिरित्युच्यते ८ ॥ तदुक्तम्
" लये सम्बोधयेच्चित्तं, विक्षेपं शमयेत् पुनः । सकषायं विजानीयात्, समाध्याप्तं न चालयेत्" ।। [अद्वैतप्र० ४ ] नास्त्रादयेद् रसं तत्र, निसङ्गः प्रज्ञया भवेत् । " इति [अद्वैतप्र० ४५ ] " यथा दीपो निवातस्थो, नेङ्गते सोपमा स्मृता " ॥ [ गीता ६, १९] इति च । वर्तते, परं रागादिवासनया स्तब्धीभावो नास्तीति ततो विशेषः कषाये इति । व्युत्थाने समाधितो व्युत्थाने, समाध्यपगमनानन्तरमिति यावत् । एतद्विनेति अनन्त रोपदर्शितलयादिविघ्नेत्यर्थः ।
1
>
लयादिविघ्नाभावत एव निर्विकल्पकसमाधिरित्यत्र प्राचां संवादमाह - तदुक्तमिति । लये अखण्डवस्त्वनवलम्बने समुपस्थिते, सम्बोधयेश्चित्तं यथाऽखण्डवस्त्ववलम्बना तस्य वृत्तिर्भवति तथैकाग्रीभावलक्षणसम्बोधनं चित्तस्य विदध्यात् विक्षेपं यदखण्डवस्त्ववलम्बनेऽपि अन्यवस्त्ववलम्बनं वृत्तेस्तम्, शमयेत् यथाऽन्यालम्बना चित्तवृत्तिर्न भवति तथा यत्नमातिष्ठेत सकषायमिति तदानीं रागादिवासनया स्तब्धभावे सकार्य समाधिं जानीयात्, तज्ज्ञात्वा च समाध्याप्तं समाधिप्राप्तमात्मानम् न चालयेत् न रागादिवासनया कुण्ठीभूतं विदध्यात् ॥ १ ॥ नास्वादयेद् रसं तत्र समाधेरादावन्ते च सविकल्पका नन्दास्वादनं न कुर्यात्, किन्तु निःसङ्गः प्रज्ञया भवेत् यथा रागादिरहितचिन्मात्रं सम्पद्येत तथैव कुर्यादित्यर्थः ।
गीतासंवादमप्याह- यथेति - अस्य 'योगिनो यतचित्तस्य युञ्जतो योगमात्मनः " ॥ इत्युत्तरार्द्धम् । अस्य मधुसूदनकृता व्याख्या" समाधौ निरृत्तिकस्य चित्तस्यापमानमाह-दीपचलनहेतुना वातेन ।
66