________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[२४९ योरुपपादनम्-उपक्रमोपसंहारौ, यथा छान्दोग्ये षष्ठे प्रकरणे प्रतिपाद्यस्याऽद्वितीयवस्तुन:-" एकमेवाऽद्वितीयम्" [छान्दोग्योपनिषद्, ६, २, १, ] इत्यादौ, "एतदात्म्यम्" [छान्दोग्योपनिषद्, ६१६, ३] इत्यन्ते च प्रतिपादनम्" १, प्रकरणप्रतिपाद्यस्य तन्मध्ये पौनःपुन्येन प्रतिपादनम्-अभ्यासः, यथा-तत्रैवाद्वितीयवस्तुनः- "तत् त्वमसि" [ छान्दोग्योपनिषद् , ६, ८-१६ प्रान्ते ] इति नवकृत्वः प्रतिपादनम् २, प्रकरणप्रतिपाद्यस्य प्रमाणान्तराविषयीकरणम्-अपूर्वत्वम् , यथा-तत्रैवाद्वितीयवस्तुनो मानान्तराविषयीकरणम् ३। फलं तु-प्रकरणप्रतिपाद्यार्थज्ञानस्य तदनुष्ठानस्य धा तत्र श्रूयमाणं प्रयोजनम् , यथा तत्र" आचार्यवान् पुरुषो वेद, तस्य तावदेव चिरं यावन्न विमोक्षे(क्ष्ये), अथ च सम्पत्स्ये" [ छान्दोग्योपनिषद्, ६, १४, २ ] इति, अद्वितीयवस्तुज्ञानस्य तत्प्राप्तिः प्रयोजनं श्रूयते ४ । प्रकरणप्रतिपाद्यस्य प्रशंसनम्-अर्थवादः, यथा तंत्र-" येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं पुन्येन प्रतिपादनरूपमभ्यासमद्वितीयवस्तुनि दर्शयति- यथेति । तत्रैव छान्दोग्ये षष्ठे प्रकरण एव, एवमग्रेऽपि । नवकृत्वः नववारम् । अपूर्वत्वाख्यं तृतीयं तात्पर्यलिङ्गं लक्षयति- प्रकरणेति । अद्वितीयवस्तुन आगमप्रमाणातिरिक्तप्रमाणाऽविषयत्वादपूर्वत्वं समस्तीत्याह- यथेति। फलाख्यं चतुर्थ तात्पर्यलिङ्गं लक्षयति- फलं त्विति । तदनुष्ठानस्य प्रकराप्रतिपाद्यार्थानुष्ठानस्य । तत्र प्रकरणे, एवमग्रेऽपि। उक्तप्रयोजन मद्वितीयवस्तुज्ञानस्य दर्शयति- यथेति। वेद ब्रह्मतत्त्वं जानाति । तस्य ब्रह्मतत्त्वज्ञानवतः पुरुषस्य । यावन्न विमोक्ष्य इति- अस्य जीवन्मुक्तस्यापि सतो यावन्न प्रारब्धाशेषकर्मभोगतोऽशेषकार्यसहिताऽविद्यया मुच्यते तावदेव विलम्बः। अथ अशेषप्रारब्धकर्मणामप्युपभोगानन्तरम् ।