________________
२४८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् समाध्यनुष्ठानानि । श्रवणं नाम पद्भिलिंङ्गैरशेषवेदान्तानामद्वितीयवस्तुनि तात्पर्यावधारणम् । लिङ्गानि तु उपक्रमोपसंहारा ऽभ्यासाऽपूर्वता फैला ऽथवादोपपत्याख्यानि । प्रकरणप्रतिपाद्यस्य तदाद्यन्तविधा अदाढर्यस्य हेतवो बाढं सन्ति सर्वथा विद्यन्ते, अतोऽपरोक्षानुभवदााय श्रवणादिकमावर्तनीयमिति भावः ॥९९॥
एवं त्रिविधानदाढर्यहेतूनुपन्यस्य श्रुतिनानात्वप्रयुक्तादाढर्यनिवृत्तये श्रवणावृत्तिः कार्येत्याह- शाखेति- यथा शाखाभेदात् कर्ममेदः श्रूयते- "यदृच्चैध होनं क्रियते, यजुषाध्वर्जवं साम्नोदीथम्" इति, यथा वा कामदात्- "कारीर्या वृष्टिकामो यजेत, शतकृष्णलमायुष्कामः' इत्यादिकर्मभेदः श्रुतः, एवमुपनिषत्स्वपि प्रतिपाद्यतत्त्वस्य भेदशङ्कायां तन्निवारणाय श्रवणं पुनः पुनः कर्तव्यमित्यर्थः ॥ १०॥
किं तच्छ्रवणमित्याकाङ्क्षायां तल्लक्षणमाह- वेदान्तानामिति- सर्वासामप्युपनिषदामुपक्रमोपसंहारादिपर्यालोचनायां ब्रह्मरूपे प्रत्यगात्मन्येव तात्पर्यमिदं पारम्पर्येण पर्यवसानमित्येवंरूपो निश्चयः श्रवणमित्यर्थः ॥१०१॥ इति ।।
तात्पर्यावधारणहेतुभूतानि षडपि लिङ्गानि दर्शयति- लिङ्गानि त्विति । उपक्रमोपसंहारद्वयरूपप्रथमलिङ्गस्वरूपं लक्षात- प्रकरणप्रतिपायस्येति-अस्य 'उपपादनम्' इत्यनेन सम्बन्धः। तदाद्यन्तयोः प्रकरणस्यादौ प्रकरणस्यान्ते च, प्रकरणस्यादौ प्रकरणप्रतिपाद्यस्योपपादनमुपक्रमः, प्रकरणप्रतिपाद्यस्य प्रकरणान्ते उपपादनमुपसंहार इत्यर्थः। अद्वितीयब्रह्मवस्तुनि उपक्रमोपसंहारौ सङ्गमयति- यथेति । प्रतिपायस्य प्रकरणप्रतिपाद्यस्य, आदौ 'एकमेवाद्वितीयम्' इत्यनेन, अन्ते च 'एतदात्म्यम्' इत्यनेनाऽद्वितीयवस्तुनः प्रतिपादनमित्युपक्रमोपसंहारावत्र स्त इत्यर्थः। अभ्यासाख्यं द्वितीयं तात्पर्यलिङ्गं लक्षयतिप्रकरणेति । तन्मध्ये प्रकरणमध्ये । प्रकरणप्रतिपाद्यस्य प्रकरणमध्ये पौन: