________________
अनेकान्त व्यवस्थाप्रकरणम्.. ]
[ २४७
द्वन्द्वसहिष्णुता ४, निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम् ५, गुरु वेदादिवाक्येषु विश्वासः - श्रद्धा ६ ।
अथ क आत्मविचार : ?, उच्यते - श्रवण-मनन-निदिध्यासनइत्युपादानादविधिना परित्यागो नाधिकारित्वसम्पादक इत्यावेदितम् । तदनुगुणेति - श्रवणाद्यनुगुणेत्यर्थः । समाधानमै काश्रयम् । 'शमाद्युपेतात्मविचारमावर्तयेद्' इत्युक्तम्, तत्र क आत्मविचारः ? इति पृच्छति - भथेति । उत्तरयति - उच्यत इति । श्रोत्रेन्द्रिये तज्जन्यज्ञाने च श्रवणपदस्य रूढत्वात् तदनुष्ठानस्यात्मविचारत्वासम्भवादत आह- श्रवणं नामेति । अशेषवेदान्तानामिति - श्रवणाचरणस्यात्मविचारे आवश्यकत्वमशेषवेदान्तानाम द्वितीयब्रह्मवस्तुनि तात्पर्यावधारणस्य श्रवणत्वं चोपदर्शितं पञ्चदशीय तृप्तिदीपप्रकरणे
"अहं ब्रह्मेति वाक्यार्थबोधो यावद् दृढीभवेत् । शमादिसहितस्तावदभ्यसेच्छ्रवणादिकम् ॥ ९८ ॥ बाढं सन्ति दाढर्यस्य, हेतवः श्रुत्यनेकता । असम्भाव्यत्वमर्थस्य, विपरीता च भावना ॥ ९९ ॥ शाखाभेदात् कामभेदाच्छ्रुतं कर्माऽन्यथाऽन्यथा । पवमत्रापि मा शङ्कीत्यतः श्रवणमाचरेत् ॥ १०० ॥ वेदान्तानामशेषाणामादिमध्यावसानतः ।
ब्रह्मात्मन्येव तात्पर्यमिति धीः श्रवणं भवेत् ॥ १०१ ॥
पतेषां पद्यानां व्याख्यानमित्थम् - आचार्यैः केन वाक्येनाभिहितमित्याशङ्कय तद्वाक्यं पठति - अहं ब्रह्मेति ॥ ९८ ॥
ननु वाक्यप्रमाणजनितज्ञानस्यादाठ्यं कुतः ? इत्याशङ्कयाहबाढमिति ? हि यस्मात् कारणात् । श्रुत्यनेकता श्रुतीनां नानात्वमेको हेतुः, अर्थस्याप्यखण्डैकरसस्थाऽद्वितीयब्रह्मरूपस्यालौकिकत्वेनासम्भावित - त्वमपरः, विपरीतभावना च पुनः कर्तृत्वाभिमानरूपस्तृतीय इत्येवं