________________
२४६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् चिदेकाकारवृत्तेः शमादिगुणानां चाभ्यासादेव स्वरूपविश्रान्तिर्भवति न तु सकृज्ज्ञानमात्रात् , तदुक्तं वसिष्ठेन
" न यावत् सममभ्यस्तौ, ज्ञान-सत्पुरुपक्रमौ । एकोऽपि नैतयोस्तावत् , पुरुषस्येह सिद्ध्यति" ॥१॥ इति,
'यावद् यावदन्तर्मुखः सन्नाऽऽत्मतचं पश्यति, तावत् तावच्छमादिमान भवति, यावद् यावदन्तर्मुखः सन् शमादिमान भवति तावत् तावदात्मतत्त्वमीक्षते' इत्यनुभवसिद्धत्वानिर्विकल्पचिदेकाकारान्तःकरणवृत्त्या वृत्तिलक्षणज्ञानाभ्यासेन सहैव सत्पुरुषक्रमसंज्ञितं शमाधुपेतात्मविचारमावर्तयेदित्येतदर्थः।
शमादयः-शम-दमोपरति-तितिक्षा-समाधान-श्रद्धाः, तत्र शम:श्रवणादिव्यतिरिक्तविषयेभ्यो मनोविनिग्रहः १, दमो बाह्येन्द्रियाणां तव्यतिरिक्तविषयेभ्यो निवर्तनम् २, उपरतिः-विहितानां कर्मणां समाधिव्याक्षेपकत्वे विधिना परित्यागः ३, तितिक्षा शीतोष्णादिप्रभया । विशेषः अखण्डब्रह्माकारवृत्तितो घटादिजडपदार्थाकारवृत्ते.
लक्षण्यम् । 'परब्रह्ममात्रं भवति' इति यदुक्तं तदुक्ताखण्डाकार वृत्त्यभ्यास-शमादिगुणाभ्यासादेव, न तु सकृदुक्तवृत्तिमात्रत इत्याहएतदखण्डचिदेकाकारत्तेरिति- अस्य 'अभ्यासादेव' इत्यनेनान्वयः। 'शमादि' इत्यादिपदात् दमोपरति-तितिक्षा-समाधान-श्रद्धानामुपग्रहः। उक्ताथै वसिष्ठवचनसंवादमाह- तदुक्तं वसिष्टेनेति । 'न यावद् ' इत्यादि. वसिष्ठवचनार्थमुपदर्शयति- यावद् यावदित्यादिना। शमादयः के ? इत्यपेक्षायामाह- शमादय इति। तत्र शमादिषुषट्सु मध्ये । श्रवणादि' इत्यादिपदान्मननादेरुपग्रहः, श्रवणादिपदं च श्रवणादिविषयपरम् । तद्वयतिरित्तेति- श्रवणादिलक्षणमनोविषयव्यतिरिक्तेत्यर्थः । 'विधिना'