________________
अनेकान्तव्यवस्थाप्रकरणम् ]
घटादिजड पदार्थाकाराकारितचित्तवृत्तिस्तदज्ञातघटादिविषयीकरणेन तदज्ञाननिरसनपुरःसरं स्वगतचिदाभासेन जडं घटादिकमपि भासयति, दीपप्रभामण्डलमिव तमःस्थं घटादिकं विषयीकृत्य तद्गततमोनिरसनपूर्व स्वप्रभया घटादिकमित्यस्ति विशेषः । एतदखण्डवर्तिदीप वत् तेनैकीभूत इव भवति, अतः स्फुरणलक्षणातिशय• जनको न ब्रह्मणीत्यर्थः ॥९४॥
"अप्रमेयमनादिं चेत्यत्र श्रुत्येदमीरितम् ।
मनसैवेदमाप्तव्यमिति धीव्याप्यता श्रुता" ॥१५॥
व्याख्या - ननु ब्रह्मणि फलव्याप्तिर्नास्ति, वृत्तिव्याप्तिस्तु विद्यत इत्युक्तम्, तत्र किं प्रमाणमित्याशङ्कय आगमः प्रमाणमित्याहअप्रमेयमिति
,
"निर्विकल्पमनन्तं च हेतुदृशन्तवर्जितम् । अप्रमेयमनादि यज्ज्ञात्वा तन्मुच्यते बुधः" ॥
[ २४५
"6
[ त्रिपुरातापिन्युपनिषद्, ५, ९] अप्रमेयशब्देन
इत्यत्रास्मिन् मन्त्रे श्रुत्याऽमृतबिन्दूपनिषदा इदं फलव्याप्तिराहित्यमुक्तम्,
'मनसैवेदमाप्तव्यं नेह नानाऽस्ति किञ्चन " । [ मृत्योः स मृत्युं गच्छति, य इह नानैव पश्यति ॥ ] इति कठवल्ल्यां [४. ११] व्याप्यता श्रुता, वृतिव्याप्यत्वं श्रुतमित्यर्थः इति ॥ 'चक्षुर्दीपावपेक्ष्येते ' इत्यादिपद्याभिप्रेतमेवार्थमुपदर्शयतिघटादीति । तदज्ञातघटादिविषयीकरणेन घटत्वादिना पूर्वमज्ञातं यद् घटादि तद्विषयीकरणेन । तदज्ञाननिरसनपुरस्सरं घटत्वादिना घटादेर्यदज्ञानं तदपनयनपूर्वकम् | स्वगतचिदाभासेन घटादिजडपदार्थाकाराकारितचित्तवृत्तिगतचिदाभासेन । तद्गतेति - घटादिगतेत्यर्थः । स्वप्रभया दीपप्रभामण्डल -