________________
२५० ]
[ तत्त्वबोधिनीविकृतिविभूषितम् विज्ञातम्" [ छान्दोग्योपनिषद्, ६, १, ३ ] इत्यद्वितीयवस्तुप्रशंसनम् ५। प्रकरणप्रतिपाद्यार्थसाधने तत्र श्रूयमाणा युक्तिः-उपपत्तिः, यथा तत्र “ यथा सौम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्याद् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" [छान्दोग्योपनिषद्, ६, १, ४] इत्यादावद्वितीयवस्तुसाधने विकारस्य वाचारम्भणमात्रत्वं युक्तिः श्रूयते ६॥
मननं तु-श्रुतस्याऽद्वितीयवस्तुनो वेदान्तानुगुणयुक्तिभिरनवरतमनुचिन्तनम् । विजातीयदेहादिप्रत्ययतिरस्कारेणाऽद्वितीयवस्तुसजातीयप्रत्ययप्रवाहः-निदिध्यासनम् । समाधिर्द्विविधः-सविकल्पको सम्पत्स्ये सम्पत्स्यते कैवल्येन, अद्वितीयब्रह्ममात्रं स पुरुषो भवतीति यावत् । एतावता यदद्वितीयवस्तुज्ञानस्य प्रयोजनं श्रुतं भवति तदाह- अद्वितीयेति । तत्प्राप्तिः अद्वितीयवस्तुस्वरूपावाप्तिः । अर्थवादाख्यं पञ्चमं तात्पर्यलिङ्गं लक्षयति-प्रकरणेति- स्पष्टम् । उपपत्याख्यं षष्ठं तात्पर्यलिङ्गं लक्षयति-प्रकरणेति । तत्र प्रकरणे । अद्वितीयवस्तुनि साधकयुक्तिमुद्भावयति- यथेति । एतावता श्रवणं षड्लिङ्गोपेतमुपदर्शितम् ।
अथ मननं लक्षयति- मननं विति- स्पष्टम् । निदिध्यासनं लक्षयति- विजातीयेति-परमार्थसतोऽद्वितीयवस्तुनो. व्यावहारिकत्वाद् विजातीयो यो देहादिः, तत्प्रत्ययतिरस्कारेण-तत्प्रत्ययतोऽनन्तरितस्वेन, अथवा अद्वितीयवस्तुप्रत्ययस्य विजातीयो यो द्वितीयवस्तु. विषयकत्वाद् देहादिप्रत्ययः, तत्तिरस्कारेण तत्प्रयुक्तव्यवधानरहितत्वेन । अद्वितीयवस्तुसजातीयप्रत्ययप्रवाहः अद्वितीयवस्तुविषयकप्रत्ययस्य समानजातीयप्रवाहः, स निदिध्यासनम् , विजातीयज्ञानाऽनन्तरिताऽद्वितीयवस्तुज्ञानधाराऽद्वितीयवस्तुनो निदिध्यासनमित्यर्थः। समाधि