________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २३९ वाक्यार्थस्य विरुद्धत्वात् तदपरित्यागेन तदाश्रयाश्वादिलक्षणया विरोधपरिहारसम्भवेऽप्यत्र परोक्षत्वा-परोक्षत्वविशिष्टचैतन्यैकत्वस्य विरुद्धत्वात् तदपरित्यागेन तत्सम्बन्धियत्किञ्चिदर्थलक्षणायामपि विरोधापरिहारात् । न च तत्पदं त्वंपदं वा स्ववाच्यार्थविरुद्धांशं परित्यज्यांऽशान्तरसहितं तत्पदार्थ त्वंपदार्थ वा लक्षयतु, कुतः शोणगुणे गमनस्याऽभावात् । तदपरित्यागेन शोणलक्षणशक्यार्थाऽपरित्यागेन । तदाश्रयेति शोणगुणाश्रयेत्यर्थः। शोणपदस्य शोणगुणविशिष्टाश्वे लक्षणायां ततः शोणगुणविशिष्टाश्वरूपार्थप्रतीतौ शोणगुणवानश्यो धावतीत्येवंरूपवाक्यार्थबोधस्य सम्भवेन विरोधः परिहृतो भवतीत्याह-विरोधपरिहारसम्भवेऽपीति । अत्र 'तत् त्वमसि' इति वाक्ये। तदपरित्यागेन परोक्षत्वविशिष्टचैतन्यरूपतत्पदशक्यार्थस्य अपरोक्षत्वविशिष्टचैतन्यरूपत्वंपदशक्यार्थस्य चाऽपरित्यागेन । यदा च 'तत्-त्व' पदशक्यार्थैकत्वं न सम्भवति तदा तत्पदार्थसम्बन्धि-त्वंपदार्थसम्बन्धिनोरप्येकत्वं न सम्भवत्येवेति तथाभूतार्थलक्षणायामपि वाक्यार्थों बाधित एवेति न तत्राजहल्लक्षणया विरोधः परिहृतो भवतीत्याहविरोधाऽपरिहारादिति । 'न च' इत्यस्य 'वाच्यम् ' इत्यनेन योगः। तत्पदार्थ त्वंपदार्थ वा' इति स्थाने 'त्वंपदार्थ तत्पदार्थ वा' इत्येवं क्रमो युक्तः, तथा च तत्पदं स्ववाच्यो यः परोक्षत्वादिविशिष्टचंतन्यम्पोऽर्थस्तत्र यो विरुद्धोंऽशः परोक्षत्वादिवैशिष्टयलक्षणस्तं परित्यज्यांशान्तरं यश्चैतन्यं तत्सहितं त्वंपदार्थमपरोक्षत्वादिविशिष्टचैतन्यं लक्षयतु, वा अथवा, त्वंपदं स्ववाच्योऽर्थोऽपरोक्षत्वादिविशिष्टचैतन्यरूपस्तत्र यो विरुद्धोंऽशोऽपरोक्षत्वादिवैशिष्ट्यलक्षणस्त परित्यज्यांशान्तरं यच्चै. तन्यं तत्सहितं तत्पदार्थ परोक्षत्वादिविशिष्टचैतन्यं लक्षयतु, एवं च तत्पदस्य वैतन्यविशिष्टापरोक्षत्वादिविशिष्टचैतन्ये लक्षणा, त्वंपदस्य चैतन्यविशिष्टपरोक्षत्वादिविशिष्टचैतन्ये वा लक्षणा,एतावतैव निर्वाहे न भागलक्षणारूपलक्षणाप्रकारान्तराभ्युपगमप्रयोजनमिति शङ्कार्थः।