________________
२३८ ]
__ [ तत्वबोधिनीविवृतिविभूषितम् परित्यागेन तीरपदार्थमिव प्रकृते तत्पदं त्वंपदं वा स्वार्थपरित्यागेन त्वंपदार्थ तत्पदार्थ वा लक्षयत्विति कुतो न जहल्लक्षणेति वाच्यम् , तत्र तीरपदाऽश्रवणेन तदर्थाऽप्रतीतो लक्षणया तत्प्रतीत्यपेक्षायामपि प्रकृते 'तत् त्वं' पदयोः श्रूयमाणत्वेन तदर्थप्रतीतो लक्षणया पुनरन्यतरपदेनान्यतरपदार्थप्रतीत्यपेक्षाऽभावात् । नाऽपि 'शोणोधावति' इतिवदजहल्लक्षणाऽप्यत्र सम्भवति, तत्र शोणगुणगमनलक्षणस्य
च तस्या अयुक्तत्वात् 'न च' इत्यस्य 'वाच्यम् ' इत्यनेनान्वयः। प्रकृते 'तत् त्वमसि' इति वाक्ये, तत्पदं स्वार्थपरित्यागेन त्वंपदार्थ त्वंपदं वा स्वार्थपरित्यागेन तत्पदार्थवा लक्षयत्वित्यन्वयः, एवमुपगमेऽपि य एव तत्पदार्थः स एव त्वंपदार्थ इति तस्य वाक्यार्थत्वं सम्भवतीति भागलक्षणा न सम्भवतीति शङ्कितुरभिप्रायः, निषेधे हेतुमाह-तत्रेति'गङ्गायां घोषः' इति वाक्य इत्यर्थः। 'गङ्गातीरे घोषः' इत्येवं वाक्यं यदि स्यात् तदा शत्तयैव तीररूपार्थप्रतीतिसम्भवान्न लक्षणाश्रयणप्रयोजनं किश्चित्, घोषान्वयार्थोपपत्तये तीरप्रतीत्यपेक्षा, घोषान्वयार्थोपपत्तिश्च शक्तया तीरोपस्थितित एव, यदा तु 'गङ्गायां घोषः' इत्येव वाक्यं श्रूयते न तत्र तीरशक्ततीरपदश्रवणम्, न च गङ्गायां घोषान्वयसम्भवः किन्तु गङ्गातीरे घोषान्वय इति तदर्थ तीरप्रतीते. रपेक्षायां सा जहल्लक्षणां विना न सम्भवतीति लक्षणया तत्प्रतीत्यपेक्षायामपीत्यर्थः । प्रकृते 'तत् त्वमसि' इति वाक्ये। तदर्थप्रतीतो शक्तयैव तत्पदात् तत्पदार्थस्य त्वंपदात् त्वंपदार्थस्य प्रतीतो सत्याम् । अन्यतरपदेनेति-त्वंपदेन तत्पदार्थप्रतीत्यपेक्षायास्तत्पदेन त्वंपदार्थप्रतीत्यपेक्षायाश्चाभावादित्यर्थः । 'तत् त्वमसि' इत्यत्र जहल्लक्षणामपाकृत्याऽजहल्लक्षणां निरस्यति- नापीति- 'सम्भवति' इत्यनेनान्वयः। अत्र 'तत् त्वमसि' इति वाक्ये । तत्र 'शोणो धावति' इति वाक्ये। विरुद्धत्वात् गमनादिक्रिया द्रव्याश्रितैव न गुणाश्रितेति सिद्धान्तात्