________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २३७ ऽन्यविशेषण-विशेष्यभावसंसर्गस्यान्यतरविशिष्टान्यतरस्य तदैक्यस्य वा वाक्यार्थत्वोपपत्तावप्यत्र तत्पदार्थपरोक्षत्वादिविशिष्टचैतन्यत्वंपदार्थापरोक्षत्वादिविशिष्टचैतन्ययोरन्योऽन्यव्यावर्तकतया विशेषणविशेष्यभावसंसर्गस्य विशिष्टैक्यस्य वा प्रत्यक्षादिप्रमाणविरोधेन वाक्यार्थत्वानुपपत्तेः, तदिह लक्षणाऽऽवश्यकी, सा च 'गङ्गायां घोषः' इत्यत्रेव न जहती, तत्र गङ्गा-घोषयोराधारा-ऽऽधेयभावानुपपत्या वाक्यार्थबाधात् तं परित्यज्य तत्सम्बन्धितीरलक्षणाया युक्तत्वेऽप्यत्र परोक्षाऽपरोक्षचैतन्यैकत्वस्य वाक्यार्थस्य भागमात्रे विरोधादविरुद्धभागपरित्यागेनान्यलक्षणाया अयुक्तत्वात् । न च गङ्गापदं स्वार्थसंसर्गस्य वाक्यार्थत्वोपपत्तिः, तथा तादात्म्यसम्बधेन नीलविशिष्टमुत्पलं भवति, उत्पलविशिष्टं च नीलं भवतीति नीलविशिष्टोत्प. लस्योत्पलविशिष्टनीलस्येत्येवमन्यतरविशिष्टान्यतरस्य वाक्यार्थत्वोपपत्तिः, एवं नीलोत्पलयोस्तादात्म्यलक्षणस्यैक्यस्यास्त्येव सम्भव इति तदेक्यस्य वाक्यार्थत्वं सङ्गच्छतेतरामिति सुष्ठूक्तम्- वाक्यार्थत्वोपपत्तावपि' इति।प्रकृते उक्तदिशा.वाक्यार्थत्वोपपत्तिर्न सम्भवतीत्याहअत्रेति तत् त्वमसि' इति वक्य इत्यर्थः। विशिष्टेक्यस्येति-परोक्षत्वादिविशिष्टचैतन्या-ऽपरोक्षत्वादिविशिष्टचतन्ययोरक्यस्येत्यर्थः। उपसंहरति-तदिति इह 'तत् त्वमसि' इति वाक्ये । लक्षणाया आवश्यकत्वेऽपि न तस्या जहल्लक्षणात्वमित्याह- सेति- लक्षणेत्यर्थः, तत्र 'गङ्गायां घोषः' इत्यत्र। तं गङ्गाप्रवाहरूपार्थम् । तत्सम्बन्धीति-गङ्गासम्बन्धीत्यर्थः। अत्र 'तत् त्वमसि' इत्यत्र। भागमात्रे परोक्षत्वापरोक्षत्वांशे । अविरुद्धभागपरित्यागेन चैतन्यमात्रस्योभयत्राऽविरुद्धस्य भागस्य परित्यागेन । अन्यलक्षणायाः चैतन्यव्यतिरिक्तयत्किञ्चित्पदाथै लक्षणायाः। अयुक्तत्वात् चैतन्यरूपस्य केवलस्य वाक्यार्थत्वं यदि नोपपद्येत तदा तदन्यस्मिन् लक्षणा युक्ता स्यात्, चैतन्यरूपाबाधितार्थमादाय वाक्यार्थोपपत्ती