________________
२३६ ]
[तत्त्वबोधिनीविवृतिविभूषितम् त्वपरित्यागेनाविरुद्धदेवदत्तेन सह लक्ष्य-लक्षणभावः, तथाऽत्रापि "तत् तत्वं'पदयोस्तदर्थयोर्वा परोक्षत्वाऽपरोक्षत्वादिविशिष्टत्वपरित्यागे. नाविरुद्धचैतन्येन सह लक्ष्य लक्षणभावः, इयमेव भागलक्षणेत्युच्यते। अस्मिन् वाक्ये 'नीलमुत्पलम्' इति वाक्य इव वाक्यार्थो न सङ्गच्छते, तत्र गुण-द्रव्यवाचिनोर्नीलोत्पलपदयोःशुक्ल-पटादिव्यावर्तकतयाऽन्योइत्याह- तदर्थयोति-तदिदंपदार्थयोर्वेत्यर्थः। अत्रापि 'तत् त्वमसि' इति वाक्येऽपि। स्ववाच्यस्य विशिष्टरूपार्थस्य विशेषणं परित्यज्य विशेष्ये विशेष्यं परित्यज्य विशेषणे वा या लक्षणा सा भागलक्ष. णेति गीयते, प्रकृतेऽपि परोक्षत्वाऽपरोक्षत्वादिविशेषणंः परित्यज्य शुद्धचैतन्यस्वरूपे लक्षणेति भागलक्षणैवेयमित्याह- इयमेवेति । तथा च वेदान्तनये लक्षणा त्रिविधा-जहत्स्वार्था अजहत्स्वार्था जहदजहस्वार्था चेति, तत्र 'गङ्गायां घोषः' इत्यत्र गङ्गापदस्य तीरे लक्षणा जहत्स्वार्था, 'काकेभ्यो दधि रक्ष्यताम् ' इत्यत्र काकपदस्य दध्यु. पघातके लक्षणा अजहत्स्वार्था, 'सोऽयं देवदत्तः' इत्यत्र 'तत् त्वमसि' इत्यादौ च विशेषणं परित्यज्य विशेष्ये लक्षणा जहदजहत्स्वार्थेति। 'तत् त्वमसि' इत्यादौ भागलक्षणाया आवश्यकत्वं दर्शयति- अस्मिन् वाक्य इति-'तत् त्वमसि' इति वाक्ये इत्यर्थः। 'नीलमुत्पलम्' इति वाक्ये वाक्यार्थी घटते, 'तत् त्वमसि' इति वाक्ये वाक्यार्थो न घटते इत्येवं 'नीलमुत्पलम्' इति । वाक्य इवेतितिरेकिदृष्टान्तोऽयम्, पतदेव भावयति-तत्रेति-नीलमुत्पलमिति वाक्य इत्यर्थः। उत्पलमपि शुक्लमपि सम्भाव्यतेत्यतस्तद्वयावर्तकं नीलमिति, नीलः पटोऽपि भवतीति तद्वयावर्तकमुत्पलमित्याशयेनाह- शुक्ल-पटादिव्यावर्तकतयेति। यदा शुक्लादित उत्पलस्य व्यावर्तकत्वान्नीलमुत्पलस्य विशेषणं तदानी. मुत्पलं विशेष्यम् , यदा पटादितो नीलस्य व्यावर्तकत्वादुत्पलं नीलस्य विशेषणं तदानीं नीलं विशेष्यमित्येवमन्योऽन्यविशेषण-विशेष्यभाक्