________________
अनेकान्तव्यवस्थाप्रकरणम् ]
" सामानाधिकरण्यं च विशेषण - विशेष्यता । लक्ष्य-लक्षणसम्बन्धः, पदार्थ - प्रत्यगात्मनाम् " ॥१॥ इति । तत्र सामानाधिकरण्यसम्बन्धस्तावद् यथा 'सोऽयं देवदत्तः "" इति वाक्ये तत्कालविशिष्टदेवदत्तवाचक 'स' शब्दस्यैतत्कालविशिष्टवाचका'ऽयं शब्दस्य चैकस्मिन् पिण्डे तात्पर्यसम्बन्धः, तथा 'तत् त्वमसि' इति वाक्ये परोक्षत्वादिविशिष्टचैतन्यवाचक' तत् 'पदस्यापरोक्षत्वादिविशिष्टचैतन्यवाचक' त्वं 'पदस्य चैकस्मिन्नर्थे तात्पर्यसम्बन्धः । विशेषण- विशेष्यभावस्तु यथा तत्र वाक्ये 'स' शब्दार्थतत्कालविशिष्टदेवदत्तस्या' ऽयं 'पदार्थैतत्कालविशिष्टदेवदत्तस्य चान्योऽन्य भेदव्यावर्तकतया, तथाऽत्राऽपि वाक्ये 'तत् ' पदार्थपरोक्षत्वादिविशिष्टचैतन्यस्य ' त्वं 'पदार्थापरोक्षत्वादिविशिष्टचैतन्यस्य चान्योऽन्य भेदव्यावर्तकतया द्रष्टव्यः । लक्ष्य-लक्षणसम्बन्धस्तु यथा तत्र 'स' शब्दाऽयं ' शब्दयोस्तदर्थयोर्वा विरुद्धतत्कालैतत्कालविशिष्ट
[ २३५
इति वाक्येऽपि । द्रष्टव्य इति- विशेषण- विशेष्यभावो द्रष्टव्य इति सम्बन्धः। लक्ष्य लक्षणसम्बन्धं भावयति - लक्ष्य-लक्षणसम्बन्धस्त्विति । तत्र 'सोऽयं देवदत्तः' इति वाक्ये । शुद्धदेवदत्तस्वरूपं लक्ष्यम्, तात्पर्यवृत्त्या तज्ज्ञापकत्वात् तत्कालवैशिष्ट्यैतत्कालवं शिष्टयपरित्यागेन केवलदेवदत्तस्वरूपावबोधकत्वात् 'तत्' पदम् ' इदम् ' च लक्षणमिति तयोर्लक्ष्य-लक्षणभावसम्बन्ध इत्यभिप्रायेण ' सशब्दा-ऽयशब्दयोः ' इत्युक्तम् । तच्छब्दार्थस्तत्कालवृत्तित्वविशिष्टः, इदंशब्दार्थ पतत्कालवृत्तित्वविशिष्टः, , तदुभयत्र विशेष्यदेवदत्तस्वरूपमेकमेव, तदेव च लक्ष्यम्, तस्य चाभिन्नमेव विशेषणांशपरित्यागतस्तदुभयमित्यभेदेन तज्ज्ञापकत्वाल्लक्षणं भवतीति तदर्थयोस्तेन सह लक्ष्य-लक्षणभावसम्बन्ध