________________
-
२३४]
[ तत्त्वबोधिनीविवृतिविभूषितम् प्राग्वदेकीभूतस्य 'वं'पदवाच्यार्थत्वात् , एतदुपहिताधारानुपहितप्रत्यगानन्दतुरीयचैतन्यस्य च 'तत्-त्वं' पदलक्ष्यार्थत्वात् । . अत्र 'तत् त्वमसि' इति वाक्यं सम्बन्धत्रयेणाऽखण्डार्थ बोधयति। सम्बन्धत्रयं नाम पदयोः सामानाधिकरण्यम् , पदार्थयोर्विशेषणविशेष्यभावः, प्रत्यगाऽऽत्मलक्षणयोर्लक्ष्य-लक्षणभावश्चेति। तदुक्तम्लक्षणत्रयस्य' इत्युक्तिः व्यष्टिस्वरूपाशानोपहितचैतन्यखरूपप्राऽक्षव्यष्टिरूपसूक्ष्मशरीरोपहिसचैतन्यरूपतैजस-व्यष्टिरूपस्थूलशरीरोपहितचैतन्यरूपविश्वानां त्रित्वात् तदभिन्नाज्ञानादिन्यष्ट्यनुपहितवैतन्यस्यापि त्रित्वमित्यभिसन्धानेन । उपहिता-ऽनुपहितयोरेकत्वं 'वनवृक्षावच्छिन्नाकाशा-ऽऽकाशवद्' इत्यादिदृष्टान्तावष्टम्भेन प्रागुपपादितमेव, तत्स्मरणार्थमाह- प्राग्वदिति । 'तत् 'पदवाच्यस्येश्वरादित्रिकस्य त्वं 'पदवाच्यस्य प्राशादित्रिकस्य चाभेदाऽसम्भवाद् वाच्या. र्थोपपात्तिर्न सम्भवतीति 'तत्त्वं' पदलक्ष्यार्थमावेदयति- एतदुपहितेतिउपहितरूपं यदेतत् त्रिकद्वयं तदाधारभूतं यदनुपहितं प्रत्यगानन्दतुरीयचैतन्यं तस्य तत् त्वं' पदलक्ष्यार्थत्वादित्यर्थः। ___ अत्र वेदान्तमते सम्बन्धत्रयमुपदर्शयति-सम्बधत्रयं नामेति 'प्रत्यगात्मलक्षणयोः' इति स्थाने 'पदार्थप्रत्यगात्मलक्षणयोः' इति पाठ: समुचितः । अखण्डार्थबोधोपपादकोक्तसम्बन्धत्रये प्राचां सम्मतिमुपदर्शयति-तदुक्तमिति । पदयस्यैकार्थे तात्पर्यलक्षणसम्बन्धः सामानाधिकारण्यम् , तद् दृष्टान्तावष्टम्मेन प्रकृतवाक्ये दर्शयति सामानाधिकरण्यसम्बन्धस्तावद् यथेत्यादिना। पिण्डे देवदत्तव्यक्तिस्वरूपे । एकस्मिन्नर्थे शुद्धचैतन्यस्वरूपे विशेष्यमन्यतो व्यावर्त्यम्, विशेषणमन्यस्माद् व्यावर्तकमित्येवं न्यावर्त्यव्यावर्तकभावो विशेष्य-विशेषणभावः, सच दृष्टान्तावष्टम्मेन प्रकृते परस्परमुदर्शयति विशेषण-विशेष्यभावस्स्वित्यादिना । तब वाक्ये 'सोऽयं देवदत्तः' इति वाक्ये। अत्रापि वाक्ये 'तत्त्वमसि''