________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २३३ कारणरूपाऽपञ्चीकृतभूतमात्रं भवति, एतानि सत्त्वादिगुणसहितानि अपञ्चीकृतान्युत्पत्तिव्युत्क्रमेणैतत्कारणभूताऽज्ञानोपहितचैतन्यमात्रे भवति, एतदज्ञानमज्ञानोपहितचैतन्यं चेश्वरादिकमेतदाधारभूतानुपहितचैतन्यतुरीयब्रह्मसमापन्नं भवति । आभ्यामध्यारोपाऽपवादाभ्यां 'तत् त्वं' पदार्थावपि शोधितौ स्तः, अज्ञानादिसमष्टि-तदुपहितसर्वज्ञत्वादिविशिष्टचैतन्य तदनुपहितचैतन्यलक्षणत्रयस्य तप्तायःपिण्डवदेकत्वेनावभासमानस्य 'तत् 'पदवाच्यार्थत्वाद, अज्ञानादिव्यष्टितदुपहिताऽसर्वज्ञत्वादिविशिष्टचैतन्य तदनुपहिवचैतन्यलक्षणत्रयस्य च कारणयोस्तादात्म्यात् कार्यस्य सत्ता कारणसत्तैवेति यद् यस्य कार्य तत् तन्मात्रमेवेति भोगायतनादि ब्रह्माण्डादि सर्व पञ्चीकृतभूतकार्यमिति पञ्चीकृतभूतमात्रं तत् , एवं शब्दादिविषयसहितपश्चीकृतभूतजात-सूक्ष्मशरीरजातादिकमपञ्चीकृतभूतकार्यमिति तत् सर्वमपञ्चीकृतभूतमात्रम्, सत्त्वादिगुणसहितान्यपञ्चीकृतभूतान्यप्यज्ञानोपहितचैतन्यकार्यत्वादज्ञानोपहितचैतन्यमात्रम् , एतदपि तुरीयचैतन्यात्मकाधारभूतब्रह्माभिन्नमेवेति सर्वस्यावस्तुनो वस्तु भूत ब्रह्ममात्रत्वमिति । 'तत् त्वं' पदार्थशोधनमध्यारोपा-ऽपवादकार्यमुपदर्शयति-आभ्यामिति। 'तत् त्वं' पदशक्य लक्ष्यार्थनिष्टङ्कनमेव 'तत् त्वं' पदार्थशोधनमितितदुपदर्शयति- अज्ञानादीति । तदुपहितेति- अज्ञानाद्युपहितेत्यर्थः। तदनुपहितेति- अज्ञानाद्यनुपहितेत्यर्थः। समष्टिरूपाऽज्ञानोपहितचैतन्यखरूपेश्वर समष्टिरूपसूक्ष्मशरीररोपहितचैतन्यस्वरूपसूत्रात्महिरण्यगर्भ-समष्टिरूपस्थूलशरीरोपहितचैतन्यस्वरूपवैश्वानराणां त्रित्वात् तदभिन्नानुपहितचैतन्यस्यापि त्रित्वमित्यभिसन्धाय चैतन्यलक्षणत्रयस्येत्युक्तम् । तप्तायःपिण्डेऽग्निना सहाय:पिण्डस्यैकत्वेनावसाय इति तप्तायःपिण्डवदिति दृष्टान्तसङ्गतिः। तदुपहितेति - अज्ञानादिव्यष्टयुपहितेत्यर्थः । तदनुपहितेति- अज्ञानादिव्यष्ट्यनुपहितेत्यर्थः, अत्रापि 'चैतन्य