________________
२४० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् प्रकारान्तरेण भागलक्षणाङ्गीकार ? इति वाच्यम् , एकेन पदेन स्वार्थान्तरोभयलक्षणाया असम्भवात्, पदान्तरेण तदर्थप्रतीतेलक्षणया पुनः प्रतीत्यपेक्षाया अभावाच । तस्माद् यथा 'सोऽयं देवदत्तः' इति तदर्थो वा तत्कालैतत्कालविशिष्टदेवदत्तलक्षणस्य वाक्यार्थस्यांशे विरोधाद् विरुद्धतत्कालैतत्कालविशिष्टांशं परित्यज्याविरुद्धदेवदत्ताशमानं लक्षयति, तथा 'तत् त्वमसि' इति वाक्यं तदर्थो वा परोक्षत्वाऽपरोक्षत्वविशिष्टचैतन्यैक्यलक्षणस्य वाक्यार्थस्यांशे विरुद्धत्वाद् विरुद्ध परोक्षत्वाऽपरोक्षत्वांशं परित्यज्याऽविरुद्धं चिदंशमात्रं लक्षयतीत्यभ्युपेयम् । एवं 'तत् त्वमसि' इति वाक्याथै बोधिते 'अहं ब्रह्मासि' [ तेजोबिन्दूपनिषद्, ३, २६] इति वाक्यादधिकारिणः 'अहं नित्यशुद्ध-बुद्ध मुक्त-सत्य-स्वभावपरमानन्दा-ऽद्वयं ब्रह्मास्मि' इत्यखण्डाप्रतिक्षेपहेतुमुपन्यस्यति- एकेनेति। 'स्वार्थान्तरोभय' इति स्थाने 'स्वार्थाऽर्थान्तरोभय' इति पाठो युक्त, तत्पदस्य स्वार्थंकभागत्वाच्चैतन्यं स्वार्थः, अर्थान्तरमपरोक्षत्वादिविशिष्टचैतन्यम्, एवं त्वंपदस्य स्वार्थंकभागत्वाच्चैतन्यं स्वार्थः, परोक्षत्वादिविशिष्टचैतन्यमर्थान्तरम्, पतदुभयलक्षणाया असम्भवादित्यर्थः । पदान्तरेणेति-तत्पदस्य लक्षणा चैतन्यसहिताऽपरोक्षत्वादिविशिष्टचैतन्ये स्वीक्रियतेऽपरोक्षत्वादिविशिष्टचैतन्यप्रतिपत्त्यर्थमेव,पदान्तरेण त्वंपदेनाऽपरोक्षत्वादिविशिष्ट चैतन्यप्रतीतेश्च पुनरपरोक्षत्वादिविशिष्टचैतन्यप्रतीत्यपेक्षाया अभावानिष्प्रयोजनत्वात् सा नाभ्युपेयेति भावः। भागलक्षणां स्वाभिप्रेतां दृष्टान्तावष्टम्भेनोपसंहरति- तस्मादिति । 'सोऽयं देवदत्त इति' इत्यत्र 'इति' पदं वाक्यस्वरूपपरम् , तस्य 'लक्षयति' इत्यनेनान्वयः, 'तदर्थो वा' इत्यस्यापि 'लक्षयति' इत्यनेनान्वयः, अन्यत् स्पष्टम्। वत् त्वमसि' इति महावाक्यार्थबोधदिशा 'अहं ब्रह्माऽस्मि' इति