________________
२१० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् इति । यन्महाभाष्यकृत्
"कुंभो भावाऽणन्नो, जइ तो भावो अहनहाऽभावो ।
एवं पडादओ वि हु, भावाणन्न त्ति तम्मत्तं ॥ भावः सत्ता, ततो भिन्नत्वे । खरविषाणप्रख्यत्वं खरविषाणतुल्यत्वम्, तथा च 'घट-पटादयोऽसत्याः सत्ताभिन्नत्वात् खरविषाणवद्' इति प्रसङ्गानुमानमत्र, सत्ता सद्रूपधर्मिभिन्ना नाऽभिमता, धर्म धर्मिणो. भैदकल्पनापेक्षयाऽभेदकल्पनस्यैव न्याय्यत्वात् 'सन् घटः, सन् पटः' इत्यादिप्रतीतौ सद्रूपस्यैवैकस्य तादात्म्येन घट-पटादौ प्रकार तयाऽवासनादिति सदेव सत्त्वं भाव इति गूढाभिसन्धिः। असत्यत्वापत्तिभयाद् यदि घट-पटादीनां सत्तालक्षणभावाऽभिन्नत्वमभ्युपेयते तदोक्तन्यायादेकत्वमयत्नोपनतमेव, सत्ता च महासामान्यमेवेति सामान्यमेव वस्तु न विशेष इत्याह- तदनन्यत्वे चेति-भावाभिन्नत्वे चेत्यर्थः।
सङ्गहनये सामान्यकरूपमेव वस्त्वित्यत्र महाभाष्यसंवादमुफदर्शयति- यन्महाभाष्यकृदिति। "कुंभो." त्ति-कुम्भो भावाऽनन्यो यदि 'ततो भावः, अथाऽन्यथाऽभावः। एवं पटादयोऽपि खलु भावानन्ये इति तन्मात्रम् ॥ चूतो वनस्पतिरेव मूलादिगुण इति तत्समूह इव । गुल्मादयोऽपि एवं सर्वे न वनस्पतिविशिष्टोः ॥ इति संस्कृतम् , 'अत्र विशेषावश्यकवृत्तिकारधिवरणमदः-सत्तामात्रत्वमेव सर्वभावानां भावयन्नाह- कुंभो त्ति। कुम्भः-घटः, स भावात्- सत्तातः, अन्यः? अनन्यो वा?, यदि अनन्यः- अभिन्नः, तर्हि भावः सत्तामात्रमेवासौ। अहमह त्ति- अथाऽन्यथा-भावाद् भिन्नोऽभ्युपगम्यत इत्यर्थः, तहि अभावः- असन्नेवासी, भावाद् अन्यत्वात्, खरविषाणवदिति । एवं पटादयोऽपि प्रत्येकं वाच्याः। ततस्तेऽपि द्वितीयपक्षेऽसत्त्वप्रसङ्गाद् भावादनन्येऽभ्युपगन्तव्याः, इति सर्वमेव घट-पटादिकं वस्तु, तन्मात्रम् सत्तामात्रमेवेति ॥२२०८॥ प्रकारान्तरेणापि विशेषाणां सामान्यरूपतां