________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २०९ प्रवृनेर्निषेधस्य तदुत्तरकालं कल्पनाविषयत्वात्, सन्मात्रस्यैव शब्दस्याध्यक्षस्य वा विषयत्वेन तात्विकत्वाद् भेदप्रतिभासस्तु भेदप्रतिपादकागमोपहितान्तःकरणानां तिमिरोपप्लुतदृशा मेकशशलाञ्छनमण्डलस्यानेकत्वावभासवदसत्य एव । घट - पटादीनां हि भावान्यत्वे खरविषाणप्रख्यत्वम्, तदनन्यत्वे च सामान्यैकपरिशेष एव न्याय्य इत्युक्तिः स्याद्वाद्यभ्युपेतसामान्य-विशेषोभयात्मकवस्त्वेकदेश विधिमताश्रयेण अध्यक्षस्यापि विधावेव प्रवृत्तेरित्येव युक्तम् । निषेधस्य अन्यतो भेदस्य । तदुत्तरकालं विध्यवगाहिप्रत्यक्षोत्तरकालम्, कल्पनाविषयत्वात् तथा च काल्पनिकत्वेन न निषेधस्य वस्तुत्वम् । शब्दस्य शब्दप्रमाणस्य ।
स्वपक्षे तु
"
नन्वेवं सन्मात्रस्य तात्त्विकत्वे भेदप्रतिभासस्य का गतिरित्यत आह - भेदप्रतिभासस्त्विति - अस्य असत्य एव ' इत्यनेनान्वयः । असत्यप्रतिभासस्यान्यत्र दोषजन्यत्वस्य क्लृप्तत्वादत्रापि कश्चिद् दोष आवश्यक इत्याह- भेदेति - वस्तूनामन्योन्यभेदप्रतिपादको यो द्वैतघादिन आगमः, तेनोपहितं तज्जन्यबोधजन्यभेदविषयकभावनालक्षणदोषसहितमन्तःकरणं येषां ते भेदप्रतिपादकागमोपहितान्तः करणास्तेषामित्यर्थः तथा च भेदविषयकवासनालक्षणदोषजन्यत्वाद् मेदप्रतिभासस्याऽसत्यत्वमित्यभिसन्धिः । दोषविशेषत एकस्मिन्नपि शशधरे द्वित्वप्रतिभासलक्षणभेदप्रतिभासोऽसत्यो भवतीति तद्वदन्यत्रापि भेदप्रतिभासोऽसत्यः स्वीकारार्ह इत्याह- तिमिरोपप्लुतेति - तिमिररोगेणोपप्लुते व्याप्ते दृशौ येषां ते तिमिरोपप्लुतदृशस्तेषामित्यर्थः । एकशशलाञ्छनमण्डलस्य- अद्वितीयचन्द्रमण्डलस्य । अनेकत्वावभासवत् द्वित्वप्रतिभासवत् । घट- पटादीनां सर्वेषां यदि महासामान्यसत्तालक्षणभावैकरूपत्वं युक्तितः सिद्धं भवेत् तदा तेषां ' तदभिन्ना भिन्नानां तभिन्नत्वम्' इति न्यायत एकत्वसिद्धौ भेदप्रतिभासस्यासत्यत्वं सम्भावयितुं शक्यमित्यत आह- घट-पटादीनामिति । हि यतः । भावान्यस्वे
૧૪
6