________________
२०८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् सङ्ग्रहवचनम् ,' इत्यागमः, अस्यार्थः-सङ्गृहीतः-सामान्याभिमुख्येन गृहीतः, पिण्डितः एकजातिमानीतः, यद्वा सङ्ग्रहीत:-अनुगमविषयीकृतः, पिण्डितः-निराकृतपराभिमतव्यतिरेकः यद्वा सङ्गृहीतः-सत्ताख्यमहामामान्यभावमापन्नः, पिण्डितश्च परापरसामान्यभावमापन्नो. ऽर्थों यस्य तत्तथा, सङ्ग्रहवचनम् , अन्तःक्रोडीकृतसर्वविशेषस्य सामान्यस्यैव तेनाभ्युपगमात् , 'सद्' इत्येवं भणिते सर्वत्र भुवनप्रयान्तर्गते वस्तुनि बुद्धेरनुधावनात् , अध्यक्षस्यापि विध्यंश एव घचनं ज्ञानं वा स सङ्ग्रह इत्यर्थः। प्रकारान्तरेणाह- सङ्ग्रह्णातीति'सगृह्णातीति सङ्ग्रहः' इति व्युत्पत्तिः, सर्व वस्तु सामान्यरूपतयाऽवगाहते यज्ज्ञानं स सङ्ग्रह इत्यर्थः। आगमोक्तं सहस्वरूपमुपदर्शयति- सङ्ग्रहीतेति- "संगहिय-पिडियत्थं संगहवयणं समासओ बिति" [विशेषावश्यकगा-२१८३] इत्यागमवचनमाश्रित्येदमवगन्तव्यम् । अस्य अनन्तरोपदर्शितस्यागमस्य । 'सम्' इत्यस्य 'सामान्याभिमुख्येन' इति, 'पिण्डितः' इत्यस्य 'एकजातिमानीत.' इत्यर्थकथनम्। कल्पान्तरमाह- यद्वति। अनुगमेति- अनेकेषामेकरूपतयाऽमिलापो बोधो वाऽनुगमः, तद्विषयीकृत इत्यर्थः। 'पिण्डितः' इत्यस्य निरकृत. पराभिमतव्यतिरेकः' इत्यर्थकथनम्, परेषाम्-नैयायिकादीनाम् , अभिमतो यः व्यतिरेकः-वस्तूनां परस्परं भेदो विशेषः स पराभिमतव्यतिरेका, निराकृतो दूरीकृतः पराभिमततिरेको यत्र स निराकृतपराभिमतव्यतिरेकः, तथा च विशेषविनिर्मुक्तस्याऽनुगतसामान्यरूपार्थस्य वचनं सडन्हवचनमित्यर्थः । पुनः कल्पान्तरमाह- यद्वति। पराऽपरसाम न्येतिद्रव्यत्वादीत्यर्थः। सङ्घहनयाभिप्रेतमुपदर्शयति- अन्तःकोडीकृतति । तेन साहेण । अनुधावनम् - अवगाहनम् । प्रत्यक्षादिप्रमाणमपि सद्रूपविधिविषयकमेव, न तु परस्परभेदात्मकनिषेधविषयकम् , सादृशनिषेधस्वरूपश्च विकल्पित एवेत्याह- अध्यक्षस्यापीति । 'विध्यंशे'