________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[२०७ ... दर्शितेयं यथाशास्त्रं नैगमस्य नयस्य दिक। · कणाददृष्टिहेतुः श्रीयशोविजयवाचकैः ॥१॥ - सङ्ग्रहणं सामान्यरूपतया सर्ववस्तूनामाक्रोडनं सङ्ग्रहः । सङ्गृहात्ति सामान्यरूपतया सर्वमिति वा सङ्ग्रहः । 'सगृहीतपिण्डा तत एव सम्मतिवृत्तित एव। द्वयोः वैशेषिक-नैवायिकदर्शनयोः। नैयायिकदर्शने प्रत्यक्षानुमानोपमानागमाख्यानि चत्वारि प्रमाणानि, 'प्रमाणअमेय' इत्यादिषोडशपदार्थविभजनम् , कणाददर्शने प्रत्यक्षानुमाने द्वे एव प्रमाणे, द्रव्यादयः सप्त पदार्था इति पदार्थविजभनमित्यनयोरस्ति विशेष इत्यवबोधनाय प्राय इति। नैगमनयनिरूपणमुपसंहरनाह- दर्शितेयमिति- श्रीयशोविजयवाचकैः कणादृष्टिहेतुनेंगमस्य क्यस्येयं दिक् यथाशास्त्रं दर्शितेति सम्बन्धः॥
यद् यद् भावितमत्र गूढविषये श्रीमद्यशोवाचकैः, श्रीलावण्यवचोविलासघटना तत्सर्वतत्त्वोदिता। विज्ञानां मुदमादधातु सुचिरं न्यायोक्तिसङ्गुम्फिता, स्पष्टार्था प्रतिभाषिता प्रतिपदं युक्त्युद्भटा नीतिया ॥१॥ आद्यो नैगमनामधेय इह यः संदर्शितोऽयं नयो, नीतीनां प्रवरोऽपि वस्तु न मिताऽनेकान्तमालम्बते । एकान्तोक्तिकदर्थितोऽस्य विषयो नो सत्स्वभावाश्चितो, वस्त्वंशो विषयोऽस्य चेननु तदा सन्नीतिरेषो मतः ॥२॥
इति नैगमनयनिरूपणम् । अथ सङ्ग्रहनयनिरूपणम्. नैगमनयानन्तरमुद्दिष्टं सङ्घहं निरूपयति- सङ्ग्रहणमिति- 'सङ्गाहर्ण सङ्ग्रहः' इति व्युत्पत्तिः, 'सङ्ग्रहणम्' इत्यस्य ' आक्रोङनम्' इत्यर्थः, केन रूपेण ? इत्यपेक्षायां 'सामान्यरूपतया' इति, केषाम् ? इत्यपेक्षायां 'सर्ववस्तूनाम्' इति, 'सर्व वस्तु सदाचात्मकम् ' इति यद