________________
२०६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् प्रतिपादितमिति तत एव विशेषोऽवधारणीयः। इत्थं च वैशेषिकदर्शननिर्लोठने नैयायिकदर्शनमपि निर्लोठितं द्रष्टव्यम् , प्रायः समानत्वाद् द्वयोरिति किमतिविस्तरेण १॥
"द्वाभ्यां नयाभ्यामुन्नीतमपि शास्त्रं कणाशिना। , अन्योऽन्यनिरपेक्षत्वन्मिथ्यात्वं स्वमताग्रहात्॥ (११८] इति
व्याख्यानमस्य चेत्थम्- 'द्वाभ्यां-सामान्य-विशेषग्राहिभ्यां सङ्ग्रहव्यवराभ्यां नयाभ्याम् , उन्नी- पृथग्व्यवस्थापितमपि, कणाशिना. कणादमुनिना, शास्त्रम् , अन्योन्यनिरपेक्षत्वात्- परस्परविविक्तद्रव्य पर्यायोभयावगाहित्वात्, स्वमताग्रहात्- स्वकल्पनाभिनिवेशात्, मिथ्यात्वम्, नहि नयद्वयावलम्बनमेव शास्त्र स्यसम्यक्प्रयोजकम्, किन्तु यथास्थानं विनियोगः, स च स्वप्रयुक्तभङ्गद्धयेतरयावद्भङ्गानां स्याद्वादलाञ्छितानां परस्परसाकाङ्क्षाणां तात्पर्यविषयतया सम्पद्यते, एक तरस्याप्यतात्पर्य सिद्धान्तविराधनाया अपरिहारात्, तदाह
जे वयणिजविभपा संजुजन्तेसु होन्ति एपसु । - सा ससमयपन्नवणा सिद्धन्तविराहणा अण्णा ।
[तित्थयरासायणा अण्णा] [ ] - तदिह सामान्य-विशेषयोगः कुतस्तरामन्येषांभङ्गानामिति स्फुटमेव मिथ्यात्वम् , अतिरिक्तसामान्यविशेषापेक्षा विना महासामान्या-ऽन्त्य. विशेषयोरिव वस्तुमात्रस्य स्वत एव सामान्य विशेषात्मकत्वमित्यर्थस्यैव यथावनयद्वयविनियोगरूपत्वात्, अन्यथानवस्थानात्, तदिदमुक्तम्
"स्वतोऽनुवृत्ति-व्यतिवृत्तिमाजो, भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति ।
[अन्ययोगव्य० श्लो० ४] पतेन नैयायिकदर्शनमपि व्याख्यातम् , पदार्थ प्रमाणादिमेदं विना प्रायस्तस्य वैशेषिकदर्शनसमानविषयत्वादिति दिक्, इति ।