________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २०५ "अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादिकुरङ्गसन्त्रासनसिंहनादाः"॥
[अन्ययोगव्यव० श्लो० २२] इति । ततः षडेव पदार्था इत्यन्ययोगव्यवच्छेदोऽनुपपन्नः । अयोगव्यवच्छेदोऽपि यथाऽत्रानुपपन्नस्तथा “दोहिं वि णएहिं णीयं" [काण्ड० ३, गाथा-४९] इत्यादिगाथाव्याख्यानावसरे सम्मतिवृत्तावेव
तदिदमुक्तमिति । “अनन्तधर्मात्मकमेव तत्त्वम्" इति पद्यार्थावगमाय स्याद्वादमञ्जरी विशेषजिज्ञासुभिरवलोकनीया। उपसंहरति- तत इति । 'पार्थ एव धनुर्धरः, पृथिव्येव गन्धवती' इत्यादौ विशेष्यवाचकपदसमभिव्याहृतैवकारस्य पार्थान्ययोगव्यवच्छेदरूपार्थो धनुधरत्वे घटते, एवं पृथिव्यन्ययोगव्यवच्छेदो गन्धवत्वे घटते, तथा प्रकृते द्रव्यादिषडन्ययोगव्यवच्छेदः पदार्थत्वे न घटते, द्रव्यादिषभिन्ने वैशिष्ट्यादौ योगस्यैव पदार्थत्वे सत्त्वादित्याह- षडेवेति । 'शङ्क: पाण्डुर एव'इत्यादौ विशेषणसङ्गतैवकारस्य शङ्ख पाण्डुरत्वायोगव्यवच्छेदोऽर्थः शङ्खत्वसमानाधिकरणात्यन्ताभावाप्रतियोगि पाण्डुरत्वमित्येवंस्वरूपो यथा सम्भवति यथा प्रकृते 'द्रव्यादय षट् पदार्था एव' इति समभिन्याहारकल्पनया द्रव्यादिषट्रत्वसमानाधिकरणात्यन्ता. भावाप्रतियोगि पदार्थत्वमित्येवंरूपोऽयोगव्यवच्छेदोऽर्थो भविष्यतीत्यत आह- अयोगव्यवच्छेदोऽपीति । · दोहिं वि णएहिं णीयं० " इत्यादीतिआदिपदात् 'सत्थमुलूएण तह वि मिच्छत्तं । जं सविसयपहाणतणेण अन्नोन्ननिरविक्खा' इत्यस्य ग्रहणम् , “द्वाभ्यामपि नयाभ्यामुश्रीतं शास्त्रमुलूकेन तथापि मिथ्यात्वम् । यस्मात् स्वविषयप्रधान त्वेनान्योन्यनिरपेक्षौ" इति संस्कृतम् । एतद्गाथासमानार्थकं पयं नयोपदेशे यथा-.