________________
२०४ ]
[ तत्वबोधिनीविवृतिविभूषितम् घटवद्' इति ज्ञानस्यापि कपालादौ संयोगादिना घटादिनिर्णयत्वापत्तेश्च । किञ्च, यदि ज्ञानं स्वरूपेण घटादिसम्बद्धमिति घटादिव्यवहारमाधत्ते, तदा खाधिकरणकालादिव्यवहारमप्यादध्यात् कालादिनापि सह स्वरूपेण सम्बद्धत्वात् । कालायतिरिक्तेन सह सम्बद्धमेव तत्तद्व्यवहाराधायकम् , तथास्वाभाव्यादिति चेत् ? तबयमस्य खभावः कालाद्यतिरिक्तत्वाऽग्रहे दुर्ग्रह इति न कदापि नियतविषयव्यवहारमादध्यात् ॥ .. एवमन्येऽपि धर्मा यथा यथा भेददशा विचार्यन्ते तथा तथा भिद्यन्ते, अभेददशा तु विचार्यमाणा न भेदमनुभवन्तीति भिन्नाभिन्नानन्तधर्मात्मकं वस्त्वभ्युपगन्तव्यम्, अन्यथा वस्तुसत्तानुपपत्ते, नहि घटादिरैकान्तिकखरूपः कश्चिदनुभूयते, किन्त्वनुवृत्ति-व्यावृत्तिद्वाराऽनन्तस्त्रपरपर्यायक्रोडीकृत इति, तदिदमुक्तं प्रभुश्रीहेममूरिभिःविषयव्यवहारं करोतीति प्राप्तम्, एवं सति तज्ज्ञानं यथा स्व. रूपेण घटादिना सम्बद्धं तथा कालादिनाऽप्यस्य स्वरूपमेव सम्बन्ध इति कालादिनापि स्वरूपेण सम्बद्धमिति कालादिव्यवहारमपि विदध्यादित्याह- किश्चेति । उक्तदोषपरिहारं परः शङ्कते- कालाय तेरिक्नेति । तथास्वाभाव्यात् कालाद्यतिरिक्तेन सह स्वरूपेण सम्बद्धस्य तत्तद्वयवहाराधायकत्वस्वाभाव्यात् । समाधत्ते- तीति । अस्य ज्ञानस्य। ' एवं प्रतियोगित्व-विषयत्वादिवत् । अन्येऽपि धर्माः अनुयोगित्व. विषयत्वादयो धर्माः। भेददृशा पर्यायाथकनयाश्रयणेन। अमेददृशा द्रव्यर्शिकनयाश्रयणेन । अन्यथा भिन्नाऽभिन्नानन्तधर्मात्मकवस्त्वनभ्यु. पगमे। कथमनन्तधर्मात्मकत्वानभ्युपगमे वस्तुसत्त्वानुपपत्तिरित्यपेक्षायामाह- नहीति- अस्य 'अनुभूयते' इत्यनेन सम्बन्धः। उक्तमर्थ प्रामाणिकीकर्तुं श्रीहेमचन्द्रसूरिभगवद्ववचनसंवादमुपदर्शयति