________________
.
अनेकान्तव्यवस्थाप्रकरणम् ]
[२९१ चूओ वणस्सइ चिय, मूलाइगुणो ति तस्समूहो छ। गुम्मादओ वि एवं, सवे न वणस्सइविसिट्ठा" ॥
[विशेषावश्यकभाष्यगाथे-२२०८, २२१०] अत एव 'यत्र विशेषक्रिया न श्रूयते तत्रास्ति-भवतीत्यादिका प्रयुज्यते' इति शाब्दिकाः सत्तायाः सर्वपदार्थाव्यभिचारात्, यदेव च सर्वाव्यभिचारिरूपं तदेव पारमार्थिकम् , यच्च व्यभिचारि तत्प्रबुद्धवासनाविशेषनान्तरीयकोपस्थितिकमप्यपारमार्थिकम् , साधयितुमाह - चूओ ति। चूतः, वनस्पतिः- सामान्यरूप एव, मूलादिगुणत्वात् तत्समूहवत्- चूतादिवृक्षसमूहवत् । गुल्मः- लता समूहः, तदादयोऽपि सर्वे वृक्षेविशेषा वनस्पतेरविशिष्टा एव, इति सामान्यमेवास्ति, न विशेषा इति ॥२२१०॥ प्रथमगाथया सर्वस्य महामामान्यरूपता द्वितीयगाथया अवान्तरसामान्यरूपता, एतेन परसङ्गन्होऽपरसङ्ग्रहश्चावेदितः। यत एव सवस्य वस्तुनः सत्तारूपत्वं तत एव अथूयमाणक्रियान्तरवाक्ये भावाभिधाय्यस्त्यादिक्रियाऽध्याहार -एव शाब्दिकानामभिमत इत्याह- अत एवेति । विशेषक्रिया गमन-पचन-पठनादिक्रियार्थकधातुः, अत्र “यत्रान्यत् क्रियावाचिपदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते” इति वचनमनुसन्धेयम् । सत्तायाः सर्वपदार्थगतत्वेन पारमार्थिकत्वं घटत्व-पटत्वादिविशेषधर्मस्याऽसर्वगतत्वेन व्यभिचरितस्य काल्पनिकतयाऽपारमार्थिकत्वमित्याह- सत्ताया इति- 'सन् घटः, सन् पटः' इत्येवं सर्वपदार्थाभिन्नतया प्रतीयमा नायाः सत्तायाः सर्वपदार्थव्यापकत्वादित्यर्थः । यच्च व्यभिचारि यद् घटत्व-पटत्वादिकं न सर्वपदार्थनियनम। तत् घटत्व-पटत्वादिकम् । प्रबुद्धेति-प्रबुद्धो यो वासनाविशेषोभेदप्रतिपादकागमार्थविशेषविषयक भावनाविशेषः, तन्नान्तरीयका तजन्यत्वात् तन्नियता उपस्थितिर्यस्य तादृशमपीत्यर्थः।