________________
२०२]
[ तत्त्वबोधिनीविवृतिविभूषितम् . विषयताप्यतिरिच्यते, तथाहि न विषयरूपा सा, 'ज्ञानेनाऽतीतो घट इदानीं गृह्यतेऽतीतो घट इदानीं स्फुरति' इत्यादिप्रत्ययाप्रामाण्यापत्तेः, विषयरूपायाविषयताया एतत्कालाऽवृत्तित्वात् । अत तथाविधाभावस्य व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकस्य केवलान्वयित्वेनाऽवृत्तिमतो गगनादेः स्वरूपत्वाऽसम्भवात् , प्रतियोगिमत्येव प्रतीयमानस्य व्यवहियमाणस्य चाभावाभावस्य प्रतियोगिस्वरूपत्वस्य पराभ्युपगतेरिति बोध्यम् । 'स्वाभावाभावत्वम्' इत्यत्र स्वस्याभावः स्वाभावः, स्वाभावस्याभावः स्वाभावाभावः, तत्त्वं स्वाभावाभावत्वमित्येव निर्वचनं भवेत् , तत्र च षष्ठयर्थप्रतियोगित्वस्य निरूपयितुमशक्यत्वेन तदूपतया प्रतियोगित्वस्योपदर्शनाऽ. सम्भवाच्चेत्याह- स्वाय भावेत्यत्रेति- स्वाभावाभावत्वं स्वस्थ प्रतियोगित्वमिति प्रतियोगित्वस्य निरूपणम् , तत्र स्वस्याभावः स्वाभावः, स्वाभावस्याभावः स्वाभावाभावः, तस्य भावस्तत्त्वमित्येवं निर्वक्तव्यम्, एवं च स्वस्याभाव इत्यत्र षष्ठयर्थः सम्बन्धः प्रतियोगित्वम्, तदेव निरूपितुमारब्धमिति यावत् तन्निरूपितं न भवति तावत् षष्ठयर्थतया तन्नोपदर्शयितुं शक्यमिति प्रतियोगित्वनिरूपणे प्रति. योगित्वस्यापेक्षणादात्माश्रयापत्त्येत्थं प्रतियोगित्वनिरूपणं कर्तुमशमिति भावः । ___ एवं विषयत्वस्यातिरिक्ततयैवावश्यं स्वीकरणीयत्वाद् वैशेषिकपदार्थविभागोऽयुक्त इत्याह- विषयताऽप्यतिरिच्यत इति । विषयताया अतिरिक्तत्वं भावयति- तथाहीत्यादिना । तत्र तावद् विषयस्वरूपा विषयतान भवतीत्याह- न विषयरूपा सेति । सा विषयता । निषेधे हेतुमाह- ज्ञानेनेति- अस्य 'गृह्यते' इत्यनेनान्वयः 'इदानीं गृह्यते, इदानी स्फुरति' इत्यनयोरेतत्कालवृत्तिविषयतावानित्यर्थः, स च विषयताया विषयस्वरूपत्वे विषयस्य घटस्यातीतत्वेन तद्रूपविषयताया अप्यतीततयैतत्कालवृत्तित्वाभावेन न सम्भवतीति तादृशप्रत्ययस्याऽ.