________________
अनेकान्तव्यवस्थाप्रकरणम् ]
गित्वस्य घटादिरूपत्वे समवायसम्बन्धावच्छिन्नघटाभावादावप्युक्त
प्रतियोगिताकत्वप्रसङ्गाच्च ।
यत् तु - 'स्वाऽभावाभावत्वं स्वस्य प्रतियोगित्वम् भवति हि घटाभावस्याभावत्वं घट इति घटस्य घटाभावप्रतियोगित्वम्' इति, तन्न - गगनादेर्गगनाऽभावाऽभावत्वे मानाभावाद् गगनादेः प्रतियोगित्वानापत्तेः ' स्वस्याभाव ० ' इत्यत्र षष्ठयर्थप्रतियोगित्वाऽनिरूपणाच्च ॥
न्धावच्छिन्न प्रतियोगिताकत्वेन तमुपादाय संयोगेन घटवत्यपि भूतले संयोगेन घटो नास्तीति बुद्धिप्रसङ्गः, एवं संयोगसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावस्य समवायसम्बन्धावच्छिन्नप्रतियोगिताकत्वेन तमुपादाय समवायेन घटवत्यपि कपाले समवायेन घटो नास्तीति बुद्धिप्रसङ्गः स्यादित्याह - संयोगसम्बन्धावच्छिन्नेति ।
66
व्यावर्त्याऽभाववत्तैव भाविकी हि विशेष्यता । अभावविरद्दात्मत्वं वस्तुनः प्रतियोगिता " ॥
6
[ न्यायकुसुमाञ्जलिस्त० का० ] इति उदयनाचार्यवचनात् घटाऽभावप्रतियोगित्वं घटाभावाऽभावत्वमेव, तथा पटाऽभावादिप्रतियोगित्वमपीति मतं प्रतिक्षेप्तुमुपन्यस्यति - यत् त्विति । लक्षणं सङ्गमयति- भवति हीति - घटवत्त्वग्रहे 'घटाभावोऽस्ति ' इत्यप्रतीतेः घटाभावो नास्ति ' इति प्रतीतेश्च घटे घटा भावस्याभावत्वं भवति यतस्ततस्तदेव घटस्य घटाभावप्रतियोगित्वमित्यर्थः । गगनाभावस्य केवलान्वयित्वेन क्वचि दपि 'गगनाभावो नास्ति' इत्यप्रतीतेर्गगनस्य गगनाऽभावाऽभावत्वाऽसम्भवात् गगनाऽभावप्रतियोगित्वं न स्यादिति प्रतिक्षिपति - तन्नेति । यत् तु गगनाभावः संयोगेन समवायेन वा नास्तीति प्रतीत्या गगनाभावस्याप्यभावोऽस्त्येवेति, तन्मन्दम्
[ २०१
,