________________
२०० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् इति धीर्जायमाना नोपपद्यत, अतिरिक्ताधारतापक्षेतूक्तप्रतीतेराधारत्वासंसर्गकत्वादेव न विपरीतधीविरोधित्वमिति न दोषः। तत्र तत्सम्बन्धवत्त्वे कथमाधारतया तदभाव इति चेत् ? तत्र तवृत्तितानियामकसम्बन्धस्यैव तत्र तद्वत्तानियामकत्वादिति संक्षेपः ।।
प्रतियोगित्वमप्यतिरिच्यते, दण्डाऽभावादेः प्रतियोगित्वस्य दण्डादिस्वरूपत्वे गौरवात् , संयोगसम्बन्धावच्छिन्नघटाभावादिप्रयोन' इति बुद्धिं प्रति प्रतिबन्धकत्वम् , कुण्डप्रतियोगिक संयोगसम्ब. न्धेन कुण्डप्रकारबुद्धश्च नाधारतासंसर्गेण कुण्डप्रकारकत्वम् , अत. स्तस्या अप्रतिबन्धकत्वाद् 'बदरे न कुण्डम्' इति बुद्धिस्तत्काले जायमानोपपद्यतेतरामित्यर्थः।
उक्तप्रतीतेः कुण्डादिप्रतियोगिक संयोगेन बदरादौ कुण्डप्रकारकबुद्धेः। तत्र बदरे। तत्सम्बन्धवत्त्वे कुण्डसम्बन्धकुण्ड संयोगवत्त्वे । तदभावः कुण्डाभावः। कुण्डसम्बन्धो यः संयोगलक्षणो बदरे सन कुण्डवृत्तितानियामकः, तत्र तत्तितानियामकसम्बन्ध एव तत्र तद्वत्तानियामक इति वृत्तिनियामकसम्बन्धाभावादेव न बदरे कुण्डवत्तत्याह- तत्रेति॥
प्रतियोगित्वस्याऽप्यतिरिक्तस्य सद्भावात् षट्पदार्थीवादो वैशेषिकाणां न युक्त इत्याह- प्रतियोगित्वमप्यतिरिच्यत इति। ननु प्रति. योगिता क्लप्तप्रतियोगिस्वरूपैव, तस्या अतिरिक्तत्वे मानाऽभावादित्यत आह- दण्डाऽभावादेरिति-बहूनां दण्डादीनां प्रतियोगिनां प्रतियोगितास्वरूपत्वकल्पनापेक्षया तस्या अतिरिक्तत्वे लाघवादित्याशयः। किञ्च, संयोगसम्बन्धावच्छिन्नघटाभावप्रतियोगिता घटस्वरूपा, समवायसम्बन्धावच्छिन्नघटाभावप्रतियोगिताऽपि घटस्वरूपेति तदभिन्नाभिन्नस्य तदभिन्नत्वम्' इति नियमेन तयोः प्रतियोगित्वयोरैक्ये समवायसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावस्य संयोगसम्ब