________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १९९
6
कल्पनाया एवातिरिक्ताधारत्वकल्पनातो लघुत्वात्, अत एव चक्षुःसंयुक्तघटादिसमवायान्न पटत्वादेः प्रत्यक्षता' इति कल्पनमप्यपास्तम्, विशिष्टसंयोगादेरनतिरेकात् । किञ्च, एवं कुण्डादिप्रतियोगिकसंयोगमात्रेण बदरादौ कुण्डादिप्रकारकबुद्धौ सत्यां बदरादौ ' कुण्डादिकं न ' तेत्याशयः । एतेन ' इत्यस्य ' अपास्तम् ' इत्यनेन योगः । तत्तत्समवाय एव रूपादिप्रतियोगिकत्वविशिष्टसमवाय एव, तथा च बदरादिप्रतियोगिकत्व विशिष्टसंयोगः कुण्ड एव, न तु बदरे इति ' बदरे वदरम्' इति वुद्धेर्न प्रसङ्गः कुण्डानुयोगिकर्त्वावशिष्टसंयोगस्य नानुयोगिकत्वं वदरे, न च तद् आधारत्वप्रतीतिनियामकं किन्तु कुण्डप्रतियोगिकत्वविशिष्टसंयोग एव कुण्डाधारत्वम्, तच्च न बदरे इति 'बदरे कुण्डम्' इति प्रतीतेरपि न प्रसङ्गः, एव समवायस्य वायौ सत्त्वेऽपि रूपप्रतियोगिकत्वविशिष्टसमवायो न वायाविति 'वायौ रूपम्' इति प्रतीतेरपि न प्रसङ्गः । ननु रूपप्रतियोगिकत्वविशिष्टसमवायादन्य एव स्पर्शप्रतियोगिकत्वविशिष्टसमवाय इति समवायमानात्वं प्रसज्यत इत्यत आह- तन्नानात्वेति समवायनानात्वेत्यर्थः । अत एव समवायनानात्वादेव । एतेन' इत्यतिदिष्टमेव हेतुमुपदर्शयत - विशिष्टति ।
अतिरिक्ताधारताभ्युपगमे युक्त्यन्तरमाह - किश्चेति । एवम् सप्तम्यर्थतया अतिरिक्ताया आधारताया अनभ्युपगमे । कुण्डादीति - बदरविशेष्यककुण्डप्रतियोगिकसंयोगसम्बन्धेन कुण्डप्रकारकबुद्धेस्तेन सम्बन्धेन तत्प्रकारकतद्विशेष्यकनिश्चयविधया 'बदरे कुण्डं न ' इत्याकारिकायां तद्विशेष्यककुण्डाभावप्रकारकबुद्धौ प्रतिबन्धकत्वेन 'बदरं कुण्डप्रतियोगिकसंयोगसम्बन्धेन कुण्डवद्' इति बुद्धिसत्त्वे 'बदरे कुण्डं न ' इति धीर्जायमानाऽपि न जायेत प्रतिबन्धकसम - धानदशायां प्रतिबध्योत्पत्तेरसम्भवात्, अतिरिक्ताधारताभ्युपगमे तु आधारतासंसर्गेण कुण्डप्रकारकबदविशेष्यकबुद्धेरेव 'बदरे कुण्डं
"