________________
१९८ ]
[ तस्वबोधिनी विवृतिविभूषितम्
यच्छयामत्वं तदाधारत्वविषयीकरणान्न प्रामाण्यमिति चेत् ? नतथापि तत्र 'इदानीं न रक्तः' इति धियः प्रमात्वप्रसङ्गस्य दुर्निवारत्वात्, एतत्कालावच्छिन्नरक्तत्वाभावाधारताया अप्येतदूघटस्वरूपत्वात्, अन्यथा श्यामतादशायाम् 'इह न रक्तत्वम्' इति प्रतीतेरनुपपत्तेः । न च तत्कालविशिष्टघटादेः श्यामत्वाद्याधारतारूपत्वानभ्युपगमान्न दोष इति वाच्यम्, विशिष्टस्यानतिरिक्तत्वात्, अन्यथा क्षणभेदप्रसङ्गात् । एतेन 'बदरादिप्रतियोगित्वविशिष्टसंयोगादि रेव बदराद्याधारता, रूपाद्याधारता तु तत्तत्समवाय एव, तन्नानात्वयितुं शक्यते, तादृशबुद्धिविषयस्यैतत्कालार्वाच्छन्न श्यामत्वाधारत्वलक्षर्णाविषयस्याभावात्, एतत्कालावच्छिन्नत्वस्य रक्ततायामेव भावान्न श्यामतायामिति शङ्कते - इदानीं श्याम इतीति । श्यामताया रक्त तादशायां नष्टत्वात् तत्कालावच्छिन्नत्वं मा भवतु श्यामतायां तथापि रक्तत्वात्यन्ताभावस्य नित्यत्वेन रक्त तादशायामपि सत्तया तत्र तत्कालावच्छिन्नत्वस्य सम्भवेन तदाधारत्वस्य घटस्वरूपस्यापि तदानीं भावेन पाकरत. तादशायामांप 'घटे इदानीं न रक्तः इति बुद्धेः प्रमात्वं स्याद् विषयाबाधादिति समाधत्ते - नेति । तथापि पाकरक्तदशायां तत्कालावच्छिन्नत्वस्य श्यामत्वेऽभावाद् इदानीं स श्यामः' इति, बुद्धेः प्रमात्वापादनासम्भवेऽपि । तत्र पाकरक्तघटे । अन्यथा रक्तत्वाभावाधारताया एतद्घटस्वरूपत्वाभावे । 'न च' इत्यस्य वाच्यम्' इत्यनेन सम्बन्धः । तत्कालविशिष्टघटादेः रक्तताकालविशिष्टघटादेः । निषेध हेतुमाह- विशिष्टस्यानतिरिक्तत्वादिति- रक्तताकाल - विशिष्टघटस्य शुद्ध घटाभिन्नत्वात् एवं च घटादेः श्यामताद्याधारतास्वरूपत्वे विशिष्टघटादेरपि श्यामताद्याधारतास्वरूपत्वाद् रक्ततादशायामपि 'इदानीं श्यामः ' इति बुद्धेः ' इदानीं न रक्तः' इति बुद्धेश्व प्रमात्वप्रसङ्गादित्यर्थः । अन्यथा विशिष्टस्य शुद्धादतिरिक्तत्वे क्षणभेदप्रसङ्गात् एतत्क्षणविशिष्टघटस्वरूपादपरक्षणविशिष्टघटस्वरूपस्य एवं तत्तत्क्षणविशिष्टघटस्वरूपस्य भिन्नत्वप्रसङ्गात्, बौद्ध एव, विजये
>
C
6