________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १९७ रिति चेत् ? न-आधारतायाः कुण्डस्वरूपत्वे आधारतात्वस्यापि कुण्डत्वानतिरिक्तत्वात , तदतिरिक्तत्वे च किमपराद्धमाधारतया, येन सापि नातिरिच्येत । किञ्च, एवं पाकरक्ततादशायामपि घटे 'इदानीं स श्यामः' इति बुद्धेः प्रमावप्रसङ्गः, घटरूपायाः श्यामाधारताया एतत्कालवृत्तित्वात् । 'इदानीं श्यामः' इति बुद्धावेतत्कालावच्छिन्नं एवम् आधारत्वस्याधारस्वरूपत्वे । निषेधे हेतुमाह- आधारतात्वेनेति । "कुण्डे कुण्डम् ' इति प्रतीतिप्रसङ्गवारणायाह- न विति- कुण्डेत्वेन कुण्डस्य न कुण्डवृत्तित्वमित्यर्थः। ननु कुण्डेत्वेन कुण्डस्य न कुण्डवृत्तित्वं तस्येव त्वाधारतात्वेन तत्र वृत्तित्वमित्यत्रैव किं प्रमाणमित्यत आह- तथैव प्रतोतेरिति- आधारतात्वेनैव कुण्डे कुण्डवृत्तित्वस्य प्रतीतेरित्यर्थः । आधारतायाः कुण्डस्वरूपत्वे आधारतात्वस्यापि कुण्डत्वस्वरूपतयैवाभ्युपगन्तव्यत्वेन आधारतात्वेन कुण्डस्य कुण्डवृत्तित्वे कुण्डत्वेनापि कुण्डस्य कुण्डवृत्तित्वं वज्रलेपायितमिति 'कुण्डे कुण्डम्' इति प्रतीतिः प्रसज्यत एवेति समाधत्ते- नति। आधा. रतायाः कुण्डात्मकाधारस्वरूपत्वेऽप्याधारतात्वमतिरिक्तमेव न तु कुण्डत्वस्वरूपमिति नोक्तप्रतीतिप्रसङ्ग इत्यत आह-ततिरिक्तत्वे चेतिआधारतात्वस्यातिरिक्तत्वे चेत्यर्थः। आधारतात्वस्यातिरिक्तत्वेऽपि षट्पदार्थवादो विशीर्यत एव भवत इति षट्पदा वादापहतेरावश्यकत्वादाधारताया अतिरिक्तत्वेऽपि तदतिरिक्तदोषलक्षणापराधाभावात् किमित्यतिरिक्ताधारता न स्वीक्रियते भावता? 'अन्ते रण्डाविवाहः स्यादादावेव कुतो नहि' इत्यादि न्यायेनातिरिक्ताधारतास्वीकारोऽपिज्यायानेवेत्याह-किमपराद्धमिति-न किमप्यपराद्धमित्यर्थः। येन अपराधेन । सापि आधारतापि ।
__ आधारताया आधारस्वरूपत्वे दोषान्तरमप्याह- किञ्चेति। एवम् आधारताया आधारस्वरूपत्वे । एतत्कालवृत्तित्वात् रक्ततादशाकालवृत्तित्वात् । पाकरक्ततादशायाम् 'इदानीं श्यामः' इति बुद्धि पाद