________________
१९६ ]
[ तत्त्वबोधनीविवृतिविभूषितम् अथ तत्तदाधारादिस्वरूपैवाऽऽधारता, कुण्डादिस्वरूपमेव बदरायाधारो न तु बदरादिकं कुण्डादेरित्यत्र प्रतीतिरेव मानम् ; न च, एवं कुण्डे. बदराधारत्वप्रतीतिन स्यात् , कुण्डस्वरूपस्याधारत्वस्य, कुण्डवृत्तित्वे 'कुण्डे कुण्डम्' इत्यपि स्यादिति वाच्यम् , आधारतात्वेन कुण्डस्यापि कुण्ड वृत्तित्वात् , न तु कुण्डत्वेन, तथैव प्रतीते'कुण्डे बदरम्' इतिवत् 'कुण्डे वृक्षः' इत्यादिकमपि स्यात्, तथाहि- आधारतामात्रस्य तदर्थत्वे आधारतात्वेन संयोगसम्बन्धाच्छिन्नाधारताया यथा तदर्थत्वं तथा तेन रूपेण कालिकसम्बन्धाधच्छिन्नाधारताया अपि तदर्थत्वम्, तथा च वृक्षस्यापि कालिकसम्बन्धेन कुण्डे सत्त्वेन वृक्षनिष्ठकालिकासम्बन्धावच्छिन्ननिरूपकता. निरूपिताधारतायाः कुण्डे भावात् 'कुण्डे वृक्षः' इत्यापादयितुं शक्यत इति, अत आधारतात्वेन संयोगसम्बन्धावच्छिन्नाधेयतानिरूपिताऽऽधारतैव तत्र प्रत्ययार्थतयाभासत इति तद्धटकतया संयोगस्यापि तदर्थत्वमस्त्येवेत्यतो मात्रपदम्। तदर्थत्वे सप्तम्यर्थत्वे, कुण्ड बदरसंयोगस्य कुण्ड इव बदरेऽपि सत्त्वेन 'कुण्डे बदरम्' इतिवद् 'बदरे कुण्डम्' इत्यपि प्रसज्यत इत्यर्थः। अस्तु आधारत्वं सप्तम्यर्थः, परं तदाधारस्वरूपमेवेति न तन्निबन्धनषट्पदार्थातिरिक्तपदार्थप्राप्तिरित्याशङ्कते- अथेति । ननु यथा कुण्डस्वरूपाऽऽधारता तथा बदरस्वरूपाऽपीति 'बदरे कुण्डम् ' इत्यस्य प्रसङ्गो न वारितः स्यादित्यत आह- कुण्डादीति- अस्यायमाधार इत्यत्र प्रतीतिरेव शरणम् , भवति च 'कुण्डे बदरम्' इति प्रतीतिरतः कुण्डस्वरूपमेव बदराद्याधारः 'बदरे कुण्डम्' इति प्रतीतिस्तु न भवति, ततो न बदरस्वरूपं कुण्डाद्याधार इत्यर्थः। ननु स्वस्मिन् स्वस्य वृत्तिर्न भवति, नहि भवति घटे घट इति, तथा च कुण्डस्वरूपमाधारत्वं कुण्डे न वर्तत इति बदराधारत्वप्रतीतिर्राप कुण्डे न स्यादित्याश. इंय प्रतिक्षिपति- न चेति- 'अस्य 'वाच्यम्' इत्यनेन सम्बन्धः।