________________
अनेकान्तव्यवस्थाप्रकरणम् ]
निवेश्यत्वाच | यदि च व्यापारादिव्यवहारवच्छमात्रादेवानुगतकारणतादिव्यवहारः तदा न किञ्चिल्लक्षणमर्थतोऽनुगतं स्याद्, भेदनयचिन्तायां शब्दानुगम एव पर्यवसानात् तस्मान्नाम निक्षेपे शब्दानुगमो भावनिक्षेपे त्वर्थानुगमोऽवश्यमाश्रयणीय इति दिग् ॥
तथा 'कुण्डे बदरम्' इत्यादौ सप्तमीप्रतिपाद्यमाधारत्वमप्यतिरिच्यते, संयोगमात्रस्य तदर्थत्वे 'बदरे कुण्डम्' इत्यस्याप्यापत्तेः "
[ १९५
निवेश्यलात् कारणतालक्षणे निवेश्यत्वात् । तजन्यत्वे सति तजन्यजनकत्वादिरूपव्यापारत्वादीनामननुगतत्वेऽपि व्यापाराधेकशब्दमात्रानुगतोऽनुगतव्यापारादिव्यवहारस्तथा कारणत्वादीनामननुमतत्वेऽपि शब्दानुगममात्रनिबन्धनः कारणतादिव्यवहार इति न किञ्चिदनुगतम्, किन्तु भिन्नमेवेति भेदन आश्रीयते तदा सर्वत्र शब्दानुगम एव पर्यवसानं पर्यायार्थिकनयादित्याह - यदि चेति । तद् कि शब्दानुगम एव १ क एवमाह नामनिक्षेपाश्रयणे शब्दप्राधान्याच्छन्दानुगमः, भावनिक्षेपाश्रयणेऽर्थ प्राधान्यादर्थानुगम इति नियमयति - तस्मादिति ॥
प्रकृतमनुसरन्नाह - तथेति - वैशिष्ट्यादिकं वैशेषिकाभिमतद्रव्यादिषट्पदार्थेभ्यो व्यतिरिक्तमेवमित्यर्थः । आधारत्वमिति प्राचीनमतमाश्रित्य तत्र प्रकृत्यर्थस्य कुण्डस्य आधेयत्व सम्बन्धेनान्वयः, प्रत्ययार्थस्याधारत्वस्योत्तरपदार्थे बदरे निरूपकत्वसम्बन्धेनान्वयः, वृत्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वे 'कुण्डे न बदरम्' इत्यत्र कुण्डनिष्ठाधारत्वस्य निरूपकत्वसम्बन्धावच्छिन्नप्रतियोगिताकाभावाप्रसिद्वा तद् बदरमित्यस्य बोधयितुमशक्यतया आधेयत्वमेव सप्तम्यर्थ इति नवीनाः स्त्रीकुर्वन्तीति बोध्यम् । ननु ' कुण्डे बदरम्' इत्यत्र संयोग एव सप्तम्यर्थ इति नातिरिक्ताधारत्वकल्पनप्रयोजनमित्यत आह- संयोगमात्रस्येति- आधारत्वमात्रस्य सप्तम्यर्थत्वे