________________
१९४ ]
[तत्त्वबोधिनीविवृतिविभूषितम् ___ यत् तु-एवं कारणत्वादेरतिरिक्तत्वेऽनुगतव्याप्त्यादिव्यवहाराद् व्याप्त्यादिकमप्यतिरिच्यत इति परैरुख़ुष्यते तद् उक्तप्रतिबन्दीबादिनामस्माकं न दोषाय । ___ यदपि- नियतपूर्ववर्तितावच्छेदकदण्डत्वादिकमेव कारणत्वम् , अन्यथासिद्धिनिरूपकतानवच्छेदकत्वं तु दण्डत्वादिपरिचायकमेवेति कैश्विदभ्युपगम्यते, तदप्यसत्-नियमस्य नानाविधतया कचिदपि कारणताननुगमप्रसङ्गात् , निरुक्तान्यथासिद्धिनिरूपकतावच्छेदकत्वज्ञाने कारणत्वाव्यवहारात् तदनवच्छेदकत्वस्याप्यवश्य
उक्तयुक्तया कारणत्वादीनामतिरिक्तत्वे व्याप्त्यादीनामप्यांतरिक्तत्वं स्यादित्यापादनं त्विष्टापत्त्यैव न नः प्रतिकूलमित्याह- यत् विति । एवम् उक्तनीत्या। परैः नेयायिकैः। अस्माकं जनानाम् । 'उक्तप्रतिबन्दीवादिनाम्' इति विशेषणेनैतत् कथितं भवति- अनन्तधर्मात्मकवस्तु. वादिभिः स्याद्वादिभिर्नेकान्तेन भिन्नाः सामान्य विशेषादयोऽभ्युपगम्यन्ते, किन्त्वनन्तधर्मात्मकवस्तूनां स्वरूपान्तर्निविष्टा एवैते. अथापि यदि विभिन्नबुद्धि-व्यपदेशादितः परैः सर्वथा भिन्ना पवाभ्युपेयन्त एवं तर्हि कारणत्वादयोऽपि तथा किं न स्युरिति ?।। - कारणत्वाभ्युपगमे केषाञ्चित् प्रकारान्तरमुपन्यस्य प्रतिक्षिपतियदपीति । 'नियतपूर्ववर्तिता०' इत्यत्र नियमस्य प्रविष्टतया तस्यानेक विधत्वेन तद्धटितकारणताया अप्यनेकत्वप्रसङ्गादित्याह- नियमस्येति । यथा च नियतपूर्ववर्तितावच्छेदकत्वाऽग्रहे न कारणताशानमिति तत् तत्स्वरूपसन्निविष्टमेव न तु परिचायकतयोपलक्षणम् , तथा निरुक्तान्यथासिद्धिनिरूपकतावच्छेदकत्वज्ञाने तदनवच्छेदकत्वाज्ञानतो न कारणत्वव्यवहार इति निरुक्तान्यथासिद्धिनिरूपकतानवच्छेदकत्वमपि कारणत्वस्वरूपसन्निविष्टमेवेत्याह- निरुक्तान्यथासिद्धीति । तदनवच्छेदकत्वस्यापि निरुक्तान्यथासिद्धिनिरूपकतानवच्छेदकत्वस्यापि ।