________________
अनेकान्तव्यवस्थाप्रकरणम् ]
1
स्यैव वस्तुनो व्यावृत्तिबुद्ध्यपेक्षया व्यावृत्तत्वस्यानुवृत्तिबुद्ध्यपेक्षया चानुगतत्वस्य सम्भवात् । विषयभेदं विना बुद्धिभेदो नोपपद्यत इति चेत् ? कारणत्व कार्यत्वयोरपि तुल्यमेतत् तस्मात् त्यज्यतां वाऽतिरिक्तसामान्य-विशेषवाद, स्वीक्रियतां वा कारणत्व-कार्यत्वादिकमप्यतिरिक्तमिति दुरुत्तरा प्रतिबन्दिनदी, तदिमदभिप्रेत्योक्तं प्रभुश्रीहेमसूरिभिः
[ १९३
“स्वतोऽनुवृत्ति व्यतिवृत्तिभाजो, भावा न भावान्तर नेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वाद्, द्वयं वदन्तोऽकुशलाः स्खलन्ति" ॥ [ अन्ययोगव्य • श्लो० ४] इति । बुद्धिजनकत्वादनुगतत्वं चैकस्मिन् वस्तुन्यपि सम्भवतीत्यर्थः । ननु अनुगतबुद्धिर्व्यावृत्ति बुद्धिश्च परस्परं भिन्ना विषयभेदमन्तेरण न सम्भवतीत्याशङ्कते - विषयभेदं विनेति । दण्डबुद्धितः कारणबुद्धिर्घटबुद्धितः कार्यबुद्धिश्च विलक्षणाऽनुभूयत इत्यतो विषयभेदोऽत्राप्यावश्यक इति कारणबुद्धिविषयः कारणत्वं कार्यबुद्धिविषयः कार्यत्वमतिरिक्तमवश्यं स्वीकरणीयमिति प्रतिवन्द्योत्तरयति - कारणत्व-कार्यत्वयोरपि तुल्यमेतदिति । उपसंहरति- तस्मादिति ।
उक्तार्थसंवादकतया श्रीहेमचन्द्रसूरिभगवद्वचनमुपदर्शयतितदिदमभिप्रेत्योक्तमिति। 'स्वतोऽनुवृत्ति०' इत्यादि पद्यार्थविस्तरावगतिः | स्याद्वादमञ्जरीतो विशेष जिज्ञासुभिः कार्या, संक्षेपतस्तु - 'स्वत एवाऽनुवृत्ति-व्यावृत्तिस्वभावा भावाः, न स्वव्यतिरिक्तसामान्यात्मकपदार्थविशेषात्मक पदार्थाभ्यामनुगत व्यावृत्तिबुद्धिविषया भवन्ति । अनिपुणा नैयायिकादयस्तु स्वभिन्नसामान्याद् वस्तुतस्तथास्वरूपतामभजमानादनुगतबुद्धिम्, पवम्भूतादेव च विशेषाद् व्यावृत्तिबुद्धिं च वदन्तः सभायां निग्रहस्थानलक्षणां स्खलनामनुभवन्ति, न तु वस्तुतखं व्यवस्थापयन्तीत्यर्थः । ૧૩