________________
१९२ ]
[ तत्वबोधिनीविवृतिविभूषितम् क्तव्यवहारहेतुत्वे च कारणतात्वमधिकमभ्युपगन्तव्यं स्यात् । किञ्च, एवं दण्डत्वादिस्वरूपाया दण्डादिनिष्ठकारणताया अनुगतत्वोक्तावपि घटसमवेतनाशादिकार्यनिरूपितघटनाशादिकारणतायाः कथमनुगतत्वम् ? घटनाशत्वस्याऽनुगतस्याभावात् , तत्राप्यखण्डोपाधिनाऽनुगमस्वीकारे व्यक्तीनामेव कथञ्चिदनुगतत्वं स्वीक्रियताम् , एकमीमांसकमतसमर्थनस्यापि सम्भवादभावानभ्युपगन्ता मीमांसक एव विजयेतेत्यर्थः। दोषान्तरमप्याह- किञ्चैवमिति- ‘घटवद्दण्डत्ववान् दण्डः' इति ज्ञानमपि घटनिरूपितत्वेन दण्डत्वं गृह्णातीति घटनिरूपितत्वेन दण्डत्वग्रहणरूपकारणसद्भावाद् 'दण्डो घटकारणम् ' इति व्यवहारापत्तिरित्यर्थः, अनन्यथासिद्धत्वे सति नियतपूर्ववर्तित्व. ज्ञानजनितघटनिरूपितदण्डत्वग्रहणं 'घटकारणं दण्डः' इति व्यवहारजनकमिति न 'घटवद्दण्डत्ववान् दण्डः' इति ज्ञानान्निरुक्तव्यवहारापत्तिरित्युपगमे च गौरवमित्याह- अनन्यथेति। तादृशज्ञानत्वेन घट निरूपितत्वेन दण्डत्वज्ञानत्वेन । तादृशव्यवहारहेतुत्वे दण्डो घटकारणमिति व्यवहारहेतुत्वे च । तज्ज्ञानस्य दण्डत्वज्ञानस्य । उक्तव्यवहारहेतुत्वे दण्डो घटकारामति व्यवहारहेतुत्वे । अधिकम् अतिरिक्तम् । दण्डमात्रेषु घटनिरूपितकारणत्वमेकमित्युपपत्तये कारणत्वस्य दण्डत्वस्वरूपत्वमुपेयते, एवमपि येषु न सामान्य तेषु कथमनुगतं कारणत्वम् ? यदि च तत्राप्यखण्डोपाधिस्वरूपमेव कारणत्वमुपगम्याऽनुगतत्वं तत्राप्युपेयते तर्हि व्यक्तीनामेव कथञ्चिदनुगतव्यावृत्तस्वरूपतामभ्युपगम्याऽनुगतव्यावृत्तव्यवहारोपपादनमस्तु, अलमतिरिक्तसामान्याऽखण्डोपाध्यादिकल्पनया, ज्ञानभेदानुरोधाद् विषयभेदाभ्युपगमे तु कारण-कार्यबुद्धिभेदात् कारणत्व-कार्यत्वादिकमप्यतिरिक्तमभ्युपगम्यतामित्याह- किच्चैवमिति । तत्रापि घटनाशेऽपि। कथञ्चिदनुगतत्वं व्यावृत्तत्वसंवलितम्, तत् कथमेकस्मिन् वस्तुनीत्याकाङ्क्षायामाहएकस्यैवेति- अन्यता व्यावृत्तिबुद्धिजनकत्वाद् व्यावृत्तत्वम् , अनुगत