________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १९१ व्याविशेषे व्यवहाराविशेषात् , अन्यथा केवलभूतलज्ञानादेव प्रतियोगिज्ञानादिनाऽभावव्यवहारसमर्थको मीमांसक एव विजयेत । किञ्च, एवं घटवद्दण्डत्ववान् दण्ड इति ज्ञानात् दण्डो घटकारणमितिव्यवहारापत्तिः, 'अनन्यथासिद्ध०' इत्यादिज्ञानजनिततादृशज्ञानत्वेन तादृशव्यवहारहेतुत्वे च गौरवम् , घटकारणतात्वेन तज्ज्ञानस्यो
'दण्डो घटकारणम्' इति कारणत्वस्य दण्डत्वस्योभयत्र विषयत्वात् , तस्य चाऽविशेषाद्, अतो व्यवहारविशेषान्यथानुपपत्त्या व्यवहर्तव्यविशेषोऽवश्यमभ्युपगन्तव्य इति यद्यपि दण्डे घटकारणत्वं दण्डत्व. मेवेति तत् तस्यैव प्रकृते व्यवहर्तव्यशब्देन ग्रहणमुचितम् , तथाऽप्युदेश्यतावच्छेदकविधेयतावच्छेदकयोस्क्ये शाब्दबोधो न भवतीत्यतोऽभेदसम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रकारतानिरूपितविशेष्यताव. च्छेदकतासम्बन्धेन शाब्दबोधं प्रति तद्धर्मभेदस्य कारणत्वमुपेयते, एवं च दृष्टान्तविधया यथा- 'दण्डो दण्डः' इत्युपादातुं न शक्यते तस्य व्यवहारस्य शब्दरूपतया तजन्यशाब्दबोधे विरूपोपस्थितेर्हेतुत्वात् , ततो दण्डस्यापि समवायसम्बधेन कार्य प्रति तादात्म्यसम्बन्धेन द्रव्यत्वेन द्रव्यं कारणमिति यत्कार्यकारणभावस्तत्कारणतावच्छेदकद्रव्यत्ववत्त्वात् कारणत्वम्, तत् कारणत्वं द्रव्यत्वमेवेति तदभिसंधानेन व्यवहर्तव्यपदेन द्रव्यत्वस्य ग्रहणम् , 'दण्डत्वादेः' इत्यादिपदेन द्रव्यत्वादेरपि ग्रहणस्यापि प्रस्तुतत्वमिति बोध्यम् । ____ अन्यथा व्यवहर्तव्याविशेषेऽपि व्यवहर्तव्यातिरिक्तकारणविशेषाद् व्यवहारविशेषाभ्युपगमे, 'इदं भूतलम्' इति ज्ञाने 'घटाभाववद् भूतलम्' इति ज्ञाने च केवलभूतलमेव विषयः, तद्रूपकारणतो भूतलमिति व्यवहारः, घटाभाववद् भूतलमिति व्यवहारश्च, तयोविशेषस्तु प्रतियोगिशानविरह प्रतियोगिज्ञानाभ्यां जायमानत्वादिति