________________
१९० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् यत् तु-"दण्डत्वादिकमेव कारणत्वम् , तस्यैव घटादिकार्यसम्बन्धितया ग्रहे 'अनन्यथासिद्धः' इत्यादेयंञ्जकत्वम्' इति पक्षधरमिश्रमतम् , तत् तुच्छम्-एवं हि दण्डत्वादेः स्वरूपतो निरवधित्वे कार्यापेक्षयाच सावधित्वे शबलवस्त्वम्युपगमप्रसङ्गात् । व्यवहारे सावधित्वं स्वरूपतस्तु निरवधित्वमिति नायं दोष इति चेत् ? न-व्यवहर्त
कारणत्वाभ्युपगतौ प्रतिक्षेप्तुं पक्षधरमिश्रमतमुपन्यस्यति- यत् त्विति । दण्डत्वस्येव कारणत्वरूपत्वे 'अयं दण्डः' इति ज्ञानादपि दण्डे घटकारणत्वव्यवहारापत्तिरित्यत आह- तस्यैवेति- दण्डत्वस्यैवे. त्यर्थः, स्वरूपतो दण्डत्वग्रहो न घटकारणव्यवहारनियामकः, किन्तु घटनिरूपितकारणतात्वेन तद्ग्रहस्तथा, तत्र च 'अनन्यथासिद्ध०' इत्यादेwञ्जकत्वमिति 'अनन्यथासिद्ध०' इत्यादिज्ञानानन्तरमेव तथा तद्ग्रह इत्यर्थः। तत् तुच्छम् उक्तपक्षधरमिश्रमतमत्यल्पमसमीचीनमिति यावत् । एवं हि उक्तदिशा कारणत्वस्य दण्डत्वादिस्वरूपत्वाभ्युपगमे यतः। दण्डत्वादेरिति- दण्डत्वादेरखण्डजातिस्वरूपस्य स्वरूपतो न केनचिन्निरूपितत्वमिति निरवधित्वम् , कारणतात्वरूपेण तु घटादितत्तत्कार्यनिरूपितत्वमिति सावधित्वम् , इत्थं चैकत्र दण्डत्वादावपेक्षाभेदेन सावधित्व-निरवधित्वलक्षणविरुद्धधर्माभ्युपगमलक्षणाऽनेकान्तवादाभ्युपगमप्रसङ्गादित्यर्थः। परं उक्तदोषप्रसङ्गपरिहारमाशङ्कते- व्यवहार इति । यदि द्रव्यत्वादिकं निरवधिरूपमेव तदेव तु कारणत्वव्यवहारविषयत्वाद् व्यवहर्तव्यं नान्यदिति कथं तद्वयवहारः सावधितत्स्वरूपविषयो भवेदिति यदूपेण तद् व्यवहियते तद्रूपं तद् अभ्युपगमन्तव्यमेवेति कथं न वस्तुतः सावधित्वं तस्यैत्युक्तदिशा स्याद्वादः प्रविशत्येवेति समाधत्ते-नेति । व्यवहर्तव्याऽविशेषे व्यवहर्तव्यस्य द्रव्यत्वस्य वस्तुको निरवधित्वेन स्वरूपतस्तद्वयवहारो यथा दण्डो द्रव्यमिति तथा 'दण्डः कारणम्' इत्येव स्यात्, न तु